Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 716

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प्र꣢ व꣣ इ꣡न्द्रा꣢य꣣ मा꣡द꣢न꣣ꣳ ह꣡र्य꣢श्वाय गायत । स꣡खा꣢यः सोम꣣पा꣡व्ने꣢ ॥७१६॥

प्र꣢ । वः꣣ । इ꣡न्द्रा꣢꣯य । मा꣡द꣢꣯नम् । ह꣡र्य꣢꣯श्वाय । ह꣡रि꣢꣯ । अ꣣श्वाय । गायत । स꣡खा꣢꣯यः । स । खा꣡यः । सोमपा꣡व्ने꣢ । सो꣣म । पा꣡व्ने꣢꣯ ॥७१६॥

Mantra without Swara
प्र व इन्द्राय मादनꣳ हर्यश्वाय गायत । सखायः सोमपाव्ने ॥

प्र । वः । इन्द्राय । मादनम् । हर्यश्वाय । हरि । अश्वाय । गायत । सखायः । स । खायः । सोमपाव्ने । सोम । पाव्ने ॥७१६॥

Samveda - Mantra Number : 716
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सखायः) सुहृदः। (वः) यूयम् (हर्यश्वाय) हरयः ज्ञानकर्माहरणशीलाः अश्वाः ज्ञानेन्द्रियकर्मेन्द्रियरूपाः यस्य तस्मै, (सोमपाव्ने) ब्रह्मान्दरसस्य पात्रे (इन्द्राय) स्वान्तरात्मने (मादनम्) हर्षकरम् उद्बोधकं गीतम् (प्रगायत) प्रकृष्टतया उच्चारयत ॥१॥५
Essence
आत्मोद्बोधनेनैव सर्वैः संसारसमरे विजयो ब्रह्मानन्दरसश्च प्राप्तुं शक्यते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके १५६ क्रमाङ्के परमात्मपक्षे नृपतिपक्षे च व्याख्याता। अत्र जीवात्मपक्षे व्याख्यायते।
Footnote
४. ऋ० ७।३१।१, साम० १५६। ५. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं सखिभिर्मित्राय किं कर्तव्यमिति विषये व्याख्याति।