Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 715

1875 Mantra
Devata- इन्द्रः Rishi- श्रुतकक्षः सुकक्षो वा आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
इ꣢न्द्र꣣ इ꣡न्नो꣢ म꣣हो꣡नां꣢ दा꣣ता꣡ वाजा꣢꣯नां नृ꣣तुः꣢ । म꣣हा꣡ꣳ अ꣢भि꣣ज्ञ्वा꣡ य꣢मत् ॥७१५॥

इ꣡न्द्रः꣢꣯ । इत् । नः꣣ । महो꣡ना꣢म् । दा꣣ता꣢ । वा꣡जा꣢꣯नाम् । नृ꣣तुः꣢ । म꣣हा꣢न् । अ꣣भि꣢ज्ञु । अ꣣भि । ज्ञु꣢ । आ । य꣣मत् ॥७१५॥

Mantra without Swara
इन्द्र इन्नो महोनां दाता वाजानां नृतुः । महाꣳ अभिज्ञ्वा यमत् ॥

इन्द्रः । इत् । नः । महोनाम् । दाता । वाजानाम् । नृतुः । महान् । अभिज्ञु । अभि । ज्ञु । आ । यमत् ॥७१५॥

Samveda - Mantra Number : 715
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(इन्द्रः इत्) जगदीश्वर एव (नः) अस्मभ्यम् (महोनाम्) महताम् (वाजानाम्) धनान्नबलवेगविज्ञानादीनाम् (दाता) अर्पयिता, (नृतुः१) जगत्प्राङ्गणे सर्वेषां प्राणिनां तत्तत्कर्मानुसारं नर्तयिता च विद्यते। (महान्) महिमोपेतः सः मातुः गर्भे प्राणिनः (अभिज्ञु२) अभिगतजानुकं यथा स्यात् तथा (आयमत्३)बध्नाति ॥३॥
Essence
जगदीश्वर एव सर्वेषां जनयिता पालयिता मारयिता कर्मफलप्रदाता च विद्यते ॥३॥
Subject
अथ जगदीश्वरो वर्ण्यते।
Footnote
४. ऋ० ८।९२।३। १. नृतुः नृभ्यो हितः—इति वि०। २. अभिज्ञु सर्वस्य ज्ञाता—इति वि०। ३. आयमत्—यमु बन्धने, सर्वं जगत् कर्मभवैः पाशैर्बध्नाति—इति वि०।