Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 714

1875 Mantra
Devata- इन्द्रः Rishi- श्रुतकक्षः सुकक्षो वा आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
पु꣣रुहूतं꣡ पु꣢रुष्टु꣣तं꣡ गा꣢था꣣न्या꣡३꣱ꣳस꣡न꣢श्रुतम् । इ꣢न्द्र꣣ इ꣡ति꣢ ब्रवीतन ॥७१४॥

पु꣣रुहूत꣢म् । पु꣣रु । हूत꣣म् । पु꣣रुष्टुत꣢म् । पु꣣रु । स्तुत꣢म् । गा꣣थान्य꣢꣯म् । स꣡न꣢꣯श्रुतम् । स꣡न꣢꣯ । श्रु꣣तम् । इ꣡न्द्रः꣢꣯ । इ꣡ति꣢꣯ । ब्र꣣वीतन । ब्रवीत । न ॥७१४॥

Mantra without Swara
पुरुहूतं पुरुष्टुतं गाथान्या३ꣳसनश्रुतम् । इन्द्र इति ब्रवीतन ॥

पुरुहूतम् । पुरु । हूतम् । पुरुष्टुतम् । पुरु । स्तुतम् । गाथान्यम् । सनश्रुतम् । सन । श्रुतम् । इन्द्रः । इति । ब्रवीतन । ब्रवीत । न ॥७१४॥

Samveda - Mantra Number : 714
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
भोः शिष्याः ! यूयम् (पुरुहूतम्) पुरुभिः बहुभिः आहूतम्, (पुरुष्टुतम्) बहुस्तुतम्, (गाथान्यम्२) गीयन्ते इति गाथाः वेदवाचः ताः नयति प्रापयतीति गाथानीः तम्,वेदवाचामुपदेष्टारम्, (सनश्रुतम्३) सनातनतया प्रसिद्धम् परमेश्वरमेव (इन्द्रः इति) इन्द्र इति नाम्ना (ब्रवीतन) ब्रूत। [ब्रूञ् व्यक्तायां वाचि, अदादिः, ईडागमश्छान्दसः, तस्य तनबादेशः] ॥२॥
Essence
यद्यप्याचार्योऽपि ‘इन्द्र’ पदवाच्योऽस्ति तथापि इन्द्राणामपि इन्द्रः परमेश्वर एव विद्यते, “स पूर्वेषामपि गुरुः कालेनानवच्छेदात्” (योग० १।२६) इत्युक्तेः ॥२॥
Subject
अथाचार्यः शिष्यान् प्राह।
Footnote
१. ऋ० ८।९२।२ २. गाथाः स्तोत्रशस्त्रमन्त्राणि ताभिः नीयते यः स गाथान्यः तं गाथान्यम्—इति वि०। गाथान्यं गानयोग्यं गातव्यम्—इति सा०। (गाथान्यः) यो गाथा नयति तस्य—इति ऋ० १।१९०।१ भाष्ये द०। ३. सनशब्दः सदावाची, सदैव विश्रुतम्—इति वि०।