Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 713

1875 Mantra
Devata- इन्द्रः Rishi- श्रुतकक्षः सुकक्षो वा आङ्गिरसः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
पा꣢न्त꣣मा꣢ वो꣣ अ꣡न्ध꣢स꣣ इ꣡न्द्र꣢म꣣भि꣡ प्र गा꣢꣯यत । वि꣣श्वासा꣡ह꣢ꣳ श꣣त꣡क्र꣢तुं꣣ म꣡ꣳहि꣢ष्ठं चर्षणी꣣ना꣢म् ॥७१३॥

पा꣡न्त꣢꣯म् । आ । वः꣣ । अ꣡न्ध꣢꣯सः । इ꣡न्द्र꣢꣯म् । अ꣣भि꣢ । प्र । गा꣣यत । विश्वासा꣡ह꣢म् । वि꣣श्वा । सा꣡ह꣢꣯म् । श꣣त꣡क्र꣢तुम् । श꣣त꣢ । क्र꣣तुम् । म꣡ꣳहि꣢꣯ष्ठम् । च꣣र्षणीना꣢म् ॥७१३॥

Mantra without Swara
पान्तमा वो अन्धस इन्द्रमभि प्र गायत । विश्वासाहꣳ शतक्रतुं मꣳहिष्ठं चर्षणीनाम् ॥

पान्तम् । आ । वः । अन्धसः । इन्द्रम् । अभि । प्र । गायत । विश्वासाहम् । विश्वा । साहम् । शतक्रतुम् । शत । क्रतुम् । मꣳहिष्ठम् । चर्षणीनाम् ॥७१३॥

Samveda - Mantra Number : 713
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे शिष्याः ! (वः) यूयम् (अन्धसः) विद्यारसस्य (पान्तम्) रक्षां कुर्वाणम्, (विश्वासाहम्) कामक्रोधाज्ञानालस्यादिसमस्तरिपूणां पराभवितारम्, (शतक्रतुम्) बहुप्रज्ञं बहुकर्माणं च, चर्षणीनाम्) पुरुषार्थिनां छात्राणाम् (मंहिष्ठम्) अतिशयेन विद्यायाः सद्वृत्तस्य च दातारम् (इन्द्रम् अभि) अगाधज्ञानाद्यैश्वर्येण शोभमानम् आचार्यम् अभिलक्ष्य (प्र गायत) प्रकृष्टतया स्तुतिं कुरुत ॥१॥
Essence
ये शिष्या विद्यायाः समुद्रं शिक्षणकलाकुशलं सदाचारिणं ब्रह्मिष्ठं गुरुं श्रद्धया परिचरन्ति ते विद्वांसः सदाचारिणो ब्रह्मवेत्तारः सन्तोऽभ्युदयं लभन्ते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके १५५ क्रमाङ्के परमात्मनृपत्योः पक्षे व्याख्याता। अत्र गुरुशिष्यविषयमाह।
Footnote
१. ऋ० ८।९२।—१, साम० १५५।