Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 712

1875 Mantra
Devata- इन्द्रः Rishi- नृमेध आङ्गिरसः Chhand- पुर उष्णिक् Swara- ऋषभः
Mantra with Swara
यु꣣ञ्ज꣢न्ति꣣ ह꣡री꣢ इषि꣣र꣢स्य꣣ गा꣡थ꣢यो꣣रौ꣡ रथ꣢꣯ उ꣣रु꣡यु꣢गे वचो꣣यु꣡जा꣢ । इ꣣न्द्रवा꣡हा꣢ स्व꣣र्वि꣡दा꣢ ॥७१२॥

युञ्ज꣡न्ति꣢ । हरी꣢꣯इ꣡ति꣢ । इषिर꣡स्य꣢ । गा꣡थ꣢꣯या । उ꣣रौ꣢ । र꣡थे꣢꣯ । उ꣣रु꣡यु꣢गे । उ꣣रु꣢ । यु꣣गे । वचोयु꣡जा꣢ । व꣣चः । यु꣡जा꣢꣯ । इ꣣न्द्रवा꣡हा꣢ । इ꣣न्द्र । वा꣡हा꣢꣯ । स्व꣣र्वि꣡दा꣢ । स्वः꣣ । वि꣡दा꣢꣯ ॥७१२॥

Mantra without Swara
युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे वचोयुजा । इन्द्रवाहा स्वर्विदा ॥

युञ्जन्ति । हरीइति । इषिरस्य । गाथया । उरौ । रथे । उरुयुगे । उरु । युगे । वचोयुजा । वचः । युजा । इन्द्रवाहा । इन्द्र । वाहा । स्वर्विदा । स्वः । विदा ॥७१२॥

Samveda - Mantra Number : 712
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
उपासका जनाः किल (इषिरस्य) सर्वान्तर्यामिनः परमेश्वरस्य (गाथया) यशोगीतिकया सह (उरुयुगे) पृष्ठवंशरूपविस्तीर्णधुरायुक्ते (उरौ) विशाले (रथे) देहरथे (वचोयुजा) वचनसमकालमेव युज्यमानौ (इन्द्रवाहा) इन्द्रेण जीवात्मना उह्यमानौ प्रेर्यमाणौ (स्वर्विदा) ज्ञानकर्मप्रापकौ (हरी) ज्ञानेन्द्रियकर्मेन्द्रियरूपौ अश्वौ (युञ्जन्ति) योजयन्ति ॥३॥
Essence
परमेश्वरोपासनया सह जीवने ज्ञानसंचयः पुरुषार्थश्चापि कार्यः ॥३॥ अस्मिन् खण्डे आत्मोद्बोधनजीवात्मपरमात्मगुरु- शिष्यादिवर्णनादे—तत्खण्डस्य पूर्वखण्डेन सह संगतिर्वेद्या।
Subject
अथोपासकाः किं कुर्वन्तीत्याह।
Footnote
१. ऋ० ८।९८।९, अथ० २०।१००।३, उभयत्र ‘उ॒रुयुगे॑। इ॒न्द्र॒वाहा॑ वचो॒युजा॑।’ इति पाठः।