Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 710

1875 Mantra
Devata- इन्द्रः Rishi- नृमेध आङ्गिरसः Chhand- ककुबुष्णिक् Swara- ऋषभः
Mantra with Swara
अ꣢धा꣣꣬ ही꣢꣯न्द्र गिर्वण꣣ उ꣡प꣢ त्वा꣣ का꣡म꣢ ई꣣म꣡हे꣢ ससृ꣣ग्म꣡हे꣢ । उ꣣दे꣢व꣣ ग्म꣡न्त꣢ उ꣣द꣡भिः꣢ ॥७१०॥

अ꣡ध꣢꣯ । हि । इ꣣न्द्र । गिर्वणः । गिः । वनः । उ꣡प꣢꣯ । त्वा꣣ । का꣡मे꣢꣯ । ई꣣म꣡हे꣢ । स꣣सृग्म꣡हे꣢ । उ꣣दा꣢ । इ꣣व । ग्म꣡न्तः꣢꣯ । उ꣣द꣡भिः꣢ ॥७१०॥

Mantra without Swara
अधा हीन्द्र गिर्वण उप त्वा काम ईमहे ससृग्महे । उदेव ग्मन्त उदभिः ॥

अध । हि । इन्द्र । गिर्वणः । गिः । वनः । उप । त्वा । कामे । ईमहे । ससृग्महे । उदा । इव । ग्मन्तः । उदभिः ॥७१०॥

Samveda - Mantra Number : 710
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (गिर्वणः) गीर्भ्यः उपदेशवाग्भ्यः वननीय संभजनीय (इन्द्र) ब्रह्मविद् आचार्यप्रवर ! (अध हि) अथ खलु, वयं शिष्याः (कामे) ब्रह्मसाक्षात्काररूपमनोरथपूर्त्यर्थम् (त्वा) त्वाम् (उप ईमहे) उप गच्छामः, (ससृग्महे) त्वया सह निकटसंसर्गं च प्राप्नुमः। कथम् ? (उदा इव) यथा उदकेन जलमध्येन (ग्मन्तः) गच्छन्तः जनाः (उदभिः) उदकैः संसृज्यन्ते तद्वत्। उक्तं च यथा—आ॒चा॒र्यऽ उप॒नय॑मानो ब्रह्मचा॒रि॑णं कृणुते॒ गर्भ॑म॒न्तः। अथ० ११।५।३। इति ॥१॥ अत्रोपमालङ्कारः। ‘महे, महे’, ‘उदे, उद’ इत्यत्र च छेकानुप्रासः ॥१॥
Essence
यदा जिज्ञासुजनाः समित्पाणयो भूत्वाऽऽचार्यं प्रत्यात्मानं समर्प्य तत्सान्निध्ये वसन्ति, ततो न किमपि निगूहन्ति, तदैव तत्सकाशादपराविद्यां पराविद्यां च प्राप्तुं क्षमन्ते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४०६ क्रमाङ्के जगदीश्वरविषये व्याख्याता। अत्र शिष्या ब्रह्मविदमाचार्यं प्राहुः।
Footnote
१. ऋ० ८।९८।७, अथ० २०।१००।१ उभयत्र ‘कामा॑न् म॒हः स॑सृ॒ज्महे॑। उ॒देव॒ यन्त॑ उ॒दभिः॑’ इति पाठः। साम० ४०६।