Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 71

1875 Mantra
Devata- अग्निः Rishi- त्रिशिरास्त्वाष्ट्रः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
प्र꣢ के꣣तु꣡ना꣢ बृह꣣ता꣡ या꣢त्य꣣ग्नि꣡रा रोद꣢꣯सी वृष꣣भो꣡ रो꣢रवीति । दि꣣व꣢श्चि꣣द꣡न्ता꣢दुप꣣मा꣡मुदा꣢꣯नड꣣पा꣢मु꣣पस्थे꣢ महि꣣षो꣡ व꣢वर्ध ॥७१॥

प्र꣢ । के꣣तु꣡ना꣢ । बृ꣣हता꣢ । या꣣ति । अग्निः꣢ । आ । रो꣡द꣢꣯सी꣣इ꣡ति꣢ । वृ꣣षभः꣢ । रो꣣रवीति । दिवः꣢ । चि꣣त् । अ꣡न्ता꣢꣯त् । उ꣣पमा꣢म् । उ꣣प । मा꣢म् । उत् । आ꣣नट् । अपा꣢म् । उ꣣प꣡स्थे꣢ । उ꣣प꣡ । स्थे꣣ । महिषः꣢ । व꣣वर्ध ॥७१॥

Mantra without Swara
प्र केतुना बृहता यात्यग्निरा रोदसी वृषभो रोरवीति । दिवश्चिदन्तादुपमामुदानडपामुपस्थे महिषो ववर्ध ॥

प्र । केतुना । बृहता । याति । अग्निः । आ । रोदसीइति । वृषभः । रोरवीति । दिवः । चित् । अन्तात् । उपमाम् । उप । माम् । उत् । आनट् । अपाम् । उपस्थे । उप । स्थे । महिषः । ववर्ध ॥७१॥

Samveda - Mantra Number : 71
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अग्निः) ज्योतिर्मयो जगन्नायकः परमेश्वरः बृहता महता (केतुना) ज्ञानराशिना सह। केतुः प्रज्ञानाम। निघं० ३।९। (प्रयाति) उपासकं प्राप्नोति। (रोदसी) द्यावापृथिव्यौ (आ) आव्याप्नोति। (वृषभः) सुखादीनां वर्षकः सः (रोरवीति) अतिशयेन पुनः पुनः उपदिशति। रु शब्दे, यङ्लुगन्तोऽयं प्रयोगः। (दिवः) द्युलोकस्य (चित्) अपि (अन्तात्) प्रान्तात् (उपमाम्) सूर्य इव प्रकाशकः, नक्षत्रवत्, कान्तिमान्, ध्रुवतारकवद् अचलः, इत्यादिरूपेण औपम्यम् (उदानट्२) प्राप्नोति। आनट् व्याप्तिकर्मा। निघं० २।१४। उत् पूर्वात् अशूङ् व्याप्तौ, स्वादिः, लङि व्यत्ययेन परस्मैपदं श्नमागमश्च। (महिषः) महान् सः। महिषः इति महन्नाम। निघं० ३।३। (अपाम्) उदकानाम् (उपस्थे) उपस्थाने अन्तरिक्षलोकेऽपि (ववर्ध३) महिमानम् अधिगच्छति ॥९॥ अत्र याति, रोरवीति, उदानट्, ववर्ध इत्यनेकक्रियाणाम् एककर्तृकारकसम्बन्धाद् दीपकालङ्कारः ॥९॥
Essence
एक एवाग्निर्यथा दिवि सूर्यरूपेण, गगने विद्युद्रूपेण, पृथिव्यां च वह्निरूपेण भासते तद्वदेकोऽपि परमेश्वरः सूर्ये, तारामण्डले, विद्युति, पर्जन्ये, वह्न्यादौ च सर्वत्र प्रकाशते ॥९॥
Subject
अथ सर्वत्र परमेश्वरस्यैव महिमानं पश्यति।
Footnote
१. ऋ० १०।८।१ दिवश्चिदन्ताँ उपमाँ उदानळपामुपस्थे इति पाठः। अ० १८।३।६५, ऋषिः अथर्वा, देवता यमः, यात्यग्नि इत्यत्र भात्यग्नि इति पाठः। २. उत् आनट् ऊर्ध्वं व्याप्नोति—इति वि०। उदाप्नोति, नशेर्व्याप्तिकर्मणो रूपम् उदानडिति—भ०। अश्नोतेर्व्यत्ययेन परस्मैपदं, तिपो हल्ङ्यादिलोपः—इति सा०। ३. छन्दसि वर्द्धनार्थो वृधु धातुः परस्मैपदेऽपि प्रयुज्यते, यथा वर्धति ऋ० ८।१५।८, वर्धन्तु ऋ० १।५।८, वर्धतम् ऋ० ४।५०।११ इत्यादि।