Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 709

1875 Mantra
Devata- इन्द्रः Rishi- सौभरि: काण्व: Chhand- काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
उ꣡प꣢ त्वा꣣ क꣡र्म꣢न्नू꣣त꣢ये꣣ स꣢ नो꣣ यु꣢वो꣣ग्र꣡श्च꣢क्राम꣣ यो꣢ धृ꣣ष꣢त् । त्वा꣡मिध्य꣢꣯वि꣣ता꣡रं꣢ व꣣वृ꣢म꣣हे स꣡खा꣢य इन्द्र सान꣣सि꣢म् ॥७०९॥

उ꣡प꣢꣯ । त्वा꣣ । क꣡र्म꣢꣯न् । ऊ꣣त꣡ये꣢ । सः । नः꣣ । यु꣡वा꣢꣯ । उ꣣ग्रः꣢ । च꣣क्राम । यः꣢ । धृ꣣ष꣢त् । त्वाम् । इत् । हि । अ꣣विता꣡र꣢म् । व꣣वृम꣡हे꣢ । स꣡खा꣢꣯यः । स । खा꣣यः । इन्द्र । सानसि꣣म् ॥७०९॥

Mantra without Swara
उप त्वा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धृषत् । त्वामिध्यवितारं ववृमहे सखाय इन्द्र सानसिम् ॥

उप । त्वा । कर्मन् । ऊतये । सः । नः । युवा । उग्रः । चक्राम । यः । धृषत् । त्वाम् । इत् । हि । अवितारम् । ववृमहे । सखायः । स । खायः । इन्द्र । सानसिम् ॥७०९॥

Samveda - Mantra Number : 709
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) परमसहायक परमात्मन् ! (कर्मन्२) कर्मणि। [अत्र ‘सुपां सुलुक्’ इति विभक्तेर्लुक्।] (ऊतये) रक्षार्थम् (त्वा)त्वाम् (उप) उपगच्छामः। द्वितीयः पादः परोक्षकृतः। पश्यत, (सः) असौ (नः) अस्माकम् (युवा) नित्यतरुणः (उग्रः) वीरः परमेश्वरः तम् (चक्राम) आक्रामति। [क्रमु पादविक्षेपे। लडर्थे लिट्] (यः) आन्तरो बाह्यो वा शत्रुः (धृषत्) अस्मान् प्रसहते। [धृष प्रसहने, लेट्।] हे परमेश ! (सखायः) तव सुहृदो वयम् (अवितारम्) रक्षकम्, (सानसिम्) संभजनीयम् (त्वाम् इत् हि) त्वामेव (ववृमहे) वृण्महे ॥२॥
Essence
महाशक्तिरपि जीवः संसारसमराङ्गणे विजेतुं परमात्मनः साहाय्यमपेक्षते ॥२॥
Subject
अथ परमात्मानं वृणुते।
Footnote
१. ऋ० ८।२१।२, अथ० २०।१४।२ (ऋषिः सौभरिः), २०।६२।२। २. कर्मन्, कर्मणा यः सम्भजते तस्य सम्बोधनं, हे कर्मन् इति—वि०। तत्तु चिन्त्यं स्वरविरोधात्