Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 708

1875 Mantra
Devata- इन्द्रः Rishi- सौभरि: काण्व: Chhand- काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) Swara- ऋषभः
Mantra with Swara
व꣣य꣢मु꣣ त्वा꣡म꣢पूर्व्य स्थू꣣रं꣢꣫ न कच्चि꣣द्भ꣡र꣢न्तोऽव꣣स्य꣡वः꣢ । व꣡ज्रि꣢ञ्चि꣣त्र꣡ꣳ ह꣢वामहे ॥७०८॥

व꣣य꣢म् । उ꣣ । त्वा꣢म् । अ꣣पूर्व्य । अ । पूर्व्य । स्थूर꣢म् । न । कत् । चि꣣त् । भ꣡र꣢꣯न्तः । अ꣣वस्य꣡वः꣢ । व꣡ज्रि꣢꣯न् । चि꣣त्र꣢म् । ह꣣वामहे ॥७०८॥

Mantra without Swara
वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः । वज्रिञ्चित्रꣳ हवामहे ॥

वयम् । उ । त्वाम् । अपूर्व्य । अ । पूर्व्य । स्थूरम् । न । कत् । चित् । भरन्तः । अवस्यवः । वज्रिन् । चित्रम् । हवामहे ॥७०८॥

Samveda - Mantra Number : 708
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अपूर्व्य) अद्वितीयबलयुक्त (वज्रिन्) कामक्रोधादिषु रिपुषु उद्यतवज्र इन्द्र मदीय अन्तरात्मन् ! (अवस्यवः) प्रगतिं कामयमानाः (वयम् उ) वयंखलु (चित्रम्) अद्भुतगुणकर्मस्वभावम् (त्वाम् हवामहे) आह्वयामः। कथमिव ? (न) यथा (कच्चित्) किमपि (स्थूरम्) स्थूलं विशालं वस्तु (भरन्तः) हरन्तः, स्थानान्तरं प्रापयन्तो जनाः सहायतार्थं कमपि हवन्ते आह्वयन्ति तद्वत्। [हृञ् हरणे, ‘हृग्रहोर्भश्छन्दसि’ इति वार्तिकेन हस्य भः] ॥१॥ अत्रोपमालंकारः ॥१॥
Essence
प्रगतिमार्गमनुधावितुं मनुष्यस्य स्वकीय अन्तरात्मा खलु परमः सहायकः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४०८ क्रमाङ्के परमेश्वराचार्यभिषग्विषये व्याख्याता। अत्र जीवात्मानमाह।
Footnote
४. ऋ० ८।२१।१, अथ० २०।१४।१ (ऋषिः सौभरिः), २०।६२।१,सर्वत्र ‘वाजे॑ चि॒त्रं ह॑वामहे’ इति पाठः। साम० ४०८।