Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 707

1875 Mantra
Devata- अग्निः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
न꣡ हि ते꣢꣯ पू꣣र्त꣡म꣢क्षि꣣प꣡द्भुव꣢꣯न्नेमानां पते । अ꣢था꣣ दु꣡वो꣢ वनवसे ॥७०७॥

न꣢ । हि । ते꣣ । पूर्त꣢म् । अ꣣क्षिप꣢त् । अ꣣क्षि । प꣢त् । भु꣡व꣢꣯त् । ने꣣मानाम् । पते । अ꣡थ꣢꣯ । दु꣡वः꣢꣯ । व꣣नवसे ॥७०७॥

Mantra without Swara
न हि ते पूर्तमक्षिपद्भुवन्नेमानां पते । अथा दुवो वनवसे ॥

न । हि । ते । पूर्तम् । अक्षिपत् । अक्षि । पत् । भुवत् । नेमानाम् । पते । अथ । दुवः । वनवसे ॥७०७॥

Samveda - Mantra Number : 707
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (नेमानां२ पते) अपूर्णानाम् अस्माकम् [त्वो नेम इत्यर्धस्य। निरु० ३।२०।] पालक आचार्यवर ! (ते) तव (पूर्तम्) पालनं, पूरणं (अक्षि-पत्) नेत्रादीनाम् इन्द्रियाणां पातयितृ (नहि) नैव (भुवत्) भवेत्। (अथ) अपि च, त्वम् अस्माकम् (दुवः) परिचरणम्। [दुवस्यतिः परिचरणकर्मा निघं० ३।५।] (वनवसे) सम्भजस्व। [वन सम्भक्तौ, लेटि रूपम्] ॥३॥३
Essence
गुरवः शिष्यान् सम्यगध्याप्य सदाचारे प्रवर्त्तयेयुः, शिष्याश्च तान् श्रद्धया सत्कुर्युः ॥३॥
Subject
अथ शिष्या गुरुं प्राहुः।
Footnote
१. ऋ० ६।१६।१८। २. नेमानां शरीरिणाम् इन्द्रियाणां वा—इति वि०। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं ‘ये मनुष्याः सत्याचारं कुर्वन्ति तेषां कामपूर्तिः कदापि न हन्यते’ इति विषये व्याख्यातवान्।