Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 706

1875 Mantra
Devata- अग्निः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
य꣢त्र꣣꣬ क्व꣢꣯ च ते꣣ म꣢नो꣣ द꣡क्षं꣢ दधस꣣ उ꣡त्त꣢रम् । त꣢त्र꣣ यो꣡निं꣢ कृणवसे ॥७०६॥

य꣡त्र꣢꣯ । क्व꣢ । च꣣ । ते । म꣡नः꣢꣯ । द꣡क्ष꣢꣯म् । द꣣धसे । उ꣡त्त꣢꣯रम् । त꣡त्र꣢꣯ । यो꣡नि꣢꣯म् । कृ꣣णवसे ॥७०६॥

Mantra without Swara
यत्र क्व च ते मनो दक्षं दधस उत्तरम् । तत्र योनिं कृणवसे ॥

यत्र । क्व । च । ते । मनः । दक्षम् । दधसे । उत्तरम् । तत्र । योनिम् । कृणवसे ॥७०६॥

Samveda - Mantra Number : 706
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे विद्यार्थिन् ! (यत्र क्व च) यत्र कुत्रापि, यस्मिन् कस्मिन्नपि विज्ञाने (ते मनः) तव चित्तम्, अस्ति, तत्र (उत्तरम्) अधिकतरम् (दक्षम्) बलम्, नैपुण्यम् (दधसे) धत्स्व। अपि च (तत्र) तस्मिन् विज्ञाने (योनिम्) गृहम् (कृणवसे) कुरुष्व, तस्यां विद्यायां पारंगतो भवेत्यर्थः ॥२॥
Essence
यास्वपि विद्यासु शिष्याणां रुचिर्ग्रहणशक्तिश्च भवेत्, तासु विद्यासु ते गुरुभिर्निष्णाताः कार्याः ॥२॥४
Subject
पुनरपि तमेव विषयमाह।
Footnote
३. ऋ० ६।१६।१७, ‘तत्रा॒ सदः॑ कृणवसे’ इति तृतीयः पादः। ४. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं विद्वत्पक्षे व्याख्यातवान्।