Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 705

1875 Mantra
Devata- अग्निः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣢ह्यू꣣ षु꣡ ब्रवा꣢꣯णि꣣ ते꣡ऽग्न꣢ इ꣣त्थे꣡त꣢रा꣣ गि꣡रः꣢ । ए꣣भि꣡र्व꣢र्धास꣣ इ꣡न्दु꣢भिः ॥७०५॥

आ꣢ । इ꣣हि । ऊ । सु꣢ । ब्र꣡वा꣢꣯णि । ते꣣ । अ꣡ग्ने꣢꣯ । इ꣣त्था꣢ । इ꣡त꣢꣯राः । गि꣡रः꣢꣯ । ए꣣भिः꣢ । व꣣र्द्धासे । इ꣡न्दु꣢꣯भिः ॥७०५॥

Mantra without Swara
एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिरः । एभिर्वर्धास इन्दुभिः ॥

आ । इहि । ऊ । सु । ब्रवाणि । ते । अग्ने । इत्था । इतराः । गिरः । एभिः । वर्द्धासे । इन्दुभिः ॥७०५॥

Samveda - Mantra Number : 705
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) तपस्विन् विद्यार्थिन् ! [तपो वा अग्निः। श० ३।४।३।२।] (एहि उ) आगच्छ खलु। अहम् (ते) तुभ्यम् (सु) सम्यक् (इत्था) सत्यम् (इतराः) सामान्यविलक्षणाः (गिरः) शास्त्रवाचः (ब्रवाणि) उपदिशानि। त्वम् (एभिः) एतैः (इन्दुभिः) विद्यारसैः (वर्धासे) वर्धस्व ॥१॥२
Essence
गुरुभिः प्रेम्णा समाहूय शिष्या मनोयोगेन पाठनीयाः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ७ क्रमाङ्के परमेश्वरोपासनाविषये व्याख्याता। अत्र गुरुः शिष्यं सम्बोधयति।
Footnote
१. ऋ० ६।१६।१६, य० २६।१३, साम० ७। २. दयानन्दर्षिर्मन्त्रमेतमृग्भाष्ये यजुर्भाष्ये च विद्वद्विषये व्याख्यातवान्।