Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 704

1875 Mantra
Devata- अग्निः Rishi- शंयुर्बार्हस्पत्यः Chhand- प्रगाथः(विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
ऊ꣣र्जो꣡ नपा꣢꣯त꣣ꣳ स꣢ हि꣣ना꣡यम꣢꣯स्म꣣यु꣡र्दाशे꣢꣯म ह꣣व्य꣡दा꣢तये । भु꣢व꣣द्वा꣡जे꣢ष्ववि꣣ता꣡ भुव꣢꣯द्वृ꣣ध꣢ उ꣣त꣢ त्रा꣣ता꣢ त꣣नू꣡ना꣢म् ॥७०४॥

ऊ꣡र्जः꣢ । न꣡पा꣢꣯तम् । सः । हि꣣न꣢ । अ꣣य꣢म् । अ꣣स्म꣢युः । दा꣡शे꣢꣯म । ह꣣व्य꣢꣯दातये । ह꣣व्य꣢ । दा꣣तये । भु꣡व꣢꣯त् । वा꣡जे꣢꣯षु । अ꣣वि꣢ता । भु꣡व꣢꣯त् । वृ꣣धे꣢ । उ꣣त꣢ । त्रा꣣ता꣢ । त꣣नू꣡ना꣢म् ॥७०४॥

Mantra without Swara
ऊर्जो नपातꣳ स हिनायमस्मयुर्दाशेम हव्यदातये । भुवद्वाजेष्वविता भुवद्वृध उत त्राता तनूनाम् ॥

ऊर्जः । नपातम् । सः । हिन । अयम् । अस्मयुः । दाशेम । हव्यदातये । हव्य । दातये । भुवत् । वाजेषु । अविता । भुवत् । वृधे । उत । त्राता । तनूनाम् ॥७०४॥

Samveda - Mantra Number : 704
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(ऊर्जः) बलस्य (नपातम्) न पातयितारम् अग्निं परमेश्वरम्, अहम् (प्रप्र शंसिषम्) पुनः पुनः प्रशंसामि। [प्रप्र शंसिषम् इति पूर्वमन्त्रादाकृष्यते।] (सः अयम्) स एषः (हिन२) निश्चयेन(अस्मयुः) अस्मान् कामयमानः अस्ति। (हव्यदातये) दातव्यानां सद्गुणादीनां दात्रे तस्मै परमेश्वराय, वयम् (दाशेम) आत्मानं समर्पयेम। [हव्यानां दातिः दानं यस्मात् स हव्यदातिः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरः।] सः (वाजेषु) देवासुरसंग्रामेषु, अस्माकम्(अविता) रक्षकः (भुवत्) भवेत्, (वृधः) वर्धकः, (भुवत्) भवेत्, (उत) अपि च (तनूनाम्) अस्माकम् अन्नमयप्राणमयमनोमयादिदेहानाम् (त्राता) त्राणकर्ता, भुवत् भवेत् ॥२॥३
Essence
मनुष्याः स्वात्मानं परमात्मने समर्प्य कल्याणं प्राप्तुमर्हन्ति ॥२॥
Subject
अथ परमेश्वरं कामयते।
Footnote
१. ऋ० ६।४८।२, य० २७।४४। २. हिन इति निपातद्वयसमुदायो हीत्यस्यार्थे—इति सा०। (हिन) खलु—इति ऋ० ६।४८।२ भाष्ये द०। हिनः हितो मनुष्यः हीनायुर्हीनशक्तिर्हीनप्रज्ञो वा इति वि०। ३. दयानन्दर्षिर्मन्त्रमिममृग्भाष्ये राजप्रजाविषये यजुर्भाष्ये च गुरुविद्यार्थिविषये व्याख्यातवान्।