Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 703

1875 Mantra
Devata- अग्निः Rishi- शंयुर्बार्हस्पत्यः Chhand- प्रगाथः(विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
य꣣ज्ञा꣡य꣢ज्ञा वो अ꣣ग्न꣡ये꣢ गि꣣रा꣡गि꣢रा च꣣ द꣡क्ष꣢से । प्र꣡प्र꣢ व꣣य꣢म꣣मृ꣡तं꣢ जा꣣त꣡वे꣢दसं प्रि꣣यं꣢ मि꣣त्रं꣡ न श꣢꣯ꣳसिषम् ॥७०३॥

य꣣ज्ञा꣡य꣢ज्ञा । य꣣ज्ञा꣢ । य꣣ज्ञा । वः । अग्न꣡ये꣢ । गि꣣रा꣡गि꣢रा । गि꣣रा꣢ । गि꣣रा । च । द꣡क्ष꣢꣯से । प्र꣡प्र꣢꣯ । प्र । प्र꣣ । व꣣य꣢म् । अ꣣मृ꣡त꣢म् । अ꣣ । मृ꣡त꣢꣯म् । जा꣣त꣡वे꣢दसम् । जा꣣त꣢ । वे꣣दसम् । प्रिय꣢म् । मि꣣त्र꣢म् । मि꣣ । त्र꣢म् । न । श꣣ꣳसिषम् ॥७०३॥

Mantra without Swara
यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे । प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शꣳसिषम् ॥

यज्ञायज्ञा । यज्ञा । यज्ञा । वः । अग्नये । गिरागिरा । गिरा । गिरा । च । दक्षसे । प्रप्र । प्र । प्र । वयम् । अमृतम् । अ । मृतम् । जातवेदसम् । जात । वेदसम् । प्रियम् । मित्रम् । मि । त्रम् । न । शꣳसिषम् ॥७०३॥

Samveda - Mantra Number : 703
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे भ्रातरः ! अहम् (यज्ञायज्ञा) प्रतियज्ञम् (वः) युष्मान् (अग्नये) स्वात्मनि अग्निं प्रज्वालयितुम् प्रेरयामि। (गिरागिरा च) वाचा वाचा च (दक्षसे) स्वात्मानम् उन्नेतुं प्रेरयामि। (वयम्) वयं सर्वे मिलित्वा (अमृतम्) अमरणधर्माणम्, (जातवेदसम्) उत्पन्नानां पदार्थानां वेत्तारं जीवात्मानम् (प्रप्र) प्रशंसामः प्रशंसामः, प्रोद्बोधयामः इत्यर्थः। अहं पृथगपि (मित्रं न) सुहृदमिव (प्रियम्) प्रीतिपात्रम् तं जीवात्मानम् (प्रप्र शंसिषम्) प्रकर्षेण स्तौमि, तद्गुणान् कीर्तयामि ॥१॥२ अत्रोपमालङ्कारः ॥१॥
Essence
मनुष्यस्यान्तरात्मनि महती शक्तिर्निहितास्ति, तां प्रोद्बोध्य महान्ति कार्याणि साद्धुं शक्यन्ते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ३५ क्रमाङ्के परमेश्वरोपासना-विषये व्याख्याता। अत्रात्मोद्बोधनविषयमाह।
Footnote
१. ऋ० ६।४८।१, य० २७।४२, साम० ३५। २. दयानन्दर्षिणा मन्त्रोऽयमृग्भाष्ये यजुर्भाष्ये च विद्वत्कर्तव्यविषये व्याख्यातः।