Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 702

1875 Mantra
Devata- पवमानः सोमः Rishi- कविर्भार्गवः Chhand- जगती Swara- निषादः
Mantra with Swara
अ꣡व꣢ द्युता꣣नः꣢ क꣣ल꣡शा꣢ꣳ अचिक्रद꣣न्नृ꣡भि꣢र्येमा꣣णः꣢꣫ कोश꣣ आ꣡ हि꣢र꣣ण्य꣡ये꣢ । अ꣣भी꣢ ऋ꣣त꣡स्य꣢ दो꣣ह꣡ना꣢ अनूष꣣ता꣡धि꣢ त्रिपृ꣣ष्ठ꣢ उ꣣ष꣢सो꣣ वि꣡ रा꣢जसि ॥७०२॥

अ꣡व꣢꣯ । द्यु꣣तानः꣢ । क꣣ल꣡शा꣢न् । अ꣣चिक्रदत् । नृ꣡भिः꣢꣯ । ये꣣मानः꣢ । को꣡शे꣢꣯ । आ । हि꣣रण्य꣡ये꣢ । अ꣡भि꣢ । ऋ꣣त꣡स्य꣢ । दो꣣ह꣡नाः꣢ । अ꣣नूषत । अ꣡धि꣢꣯ । त्रि꣣पृष्ठः꣢ । त्रि꣣ । पृष्ठः꣢ । उ꣣ष꣡सः꣢ । वि । रा꣣जसि ॥७०२॥

Mantra without Swara
अव द्युतानः कलशाꣳ अचिक्रदन्नृभिर्येमाणः कोश आ हिरण्यये । अभी ऋतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजसि ॥

अव । द्युतानः । कलशान् । अचिक्रदत् । नृभिः । येमानः । कोशे । आ । हिरण्यये । अभि । ऋतस्य । दोहनाः । अनूषत । अधि । त्रिपृष्ठः । त्रि । पृष्ठः । उषसः । वि । राजसि ॥७०२॥

Samveda - Mantra Number : 702
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(नृभिः) उपासकजनैः (हिरण्यये कोशे) ज्योतिर्मये विज्ञानमयकोशे (येमाणः२) नियम्यमानः (द्युतानः) दीप्ययानः। [द्युत दीप्तौ, भ्वादिः।] ब्रह्मानन्दरूपः सोमरसः (कलशान्) आत्मरूपान् द्रोणकलशान् प्रति (अव अचिक्रदत्) कलकलध्वनिमिव कुर्वन् गच्छति। (ऋतस्य) सत्यस्य ब्रह्मानन्दरसस्य (दोहनाः) दोग्धारः उपासकाः तं रसम् (अभि अनूषत) अभिष्टुवन्ति। (त्रिपृष्ठः३) त्रीणि ज्ञानकर्मोपासनानि पृष्ठानि आधारा यस्य सः ब्रह्मानन्दरूपसोमः त्वम् (उषसः अधि) उषर्वेलायां सन्ध्योपासने (वि राजसि) विशेषेण प्रकाशसे ॥३॥
Essence
योगद्वारा ब्रह्मानन्दरसेन स्वात्मानमुपसिच्य योगिनो जनाः कृतार्था भवन्तु ॥३॥ अस्मिन् खण्डे आचार्यपरमात्मजीवात्मज्ञानकर्मोपासनावेदब्रह्मानन्द- विषयवर्णनादस्य खण्डस्य पूर्वखण्डेन सह संगतिर्वेद्या ॥
Subject
अथ ब्रह्मानन्दरसं वर्णयति।
Footnote
१. ऋ० ९।७५।३, ‘येमा॒नः’ ‘अ॒भीमृ॒तस्य॑’ ‘विरा॑जति’ इति पाठः। २. येमानः, छन्दसि कर्मणि लिटि कानचि रूपम्—इति सा०। ३. त्रिपृष्ठः त्रिस्थाने त्रिलोकावस्थानः, अथवा त्रिपृष्ठः ऋग्यजुः सामभिः अथवा त्रिभिर्गुणैर्दैवैः सवनैर्वा—इति वि०।