Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 701

1875 Mantra
Devata- पवमानः सोमः Rishi- कविर्भार्गवः Chhand- जगती Swara- निषादः
Mantra with Swara
ऋ꣣त꣡स्य꣢ जि꣣ह्वा꣡ प꣢वते꣣ म꣡धु꣢ प्रि꣣यं꣢ व꣣क्ता꣡ पति꣢꣯र्धि꣣यो꣢ अ꣣स्या꣡ अदा꣢꣯भ्यः । द꣡धा꣢ति पु꣣त्रः꣢ पि꣣त्रो꣡र꣢पी꣣च्यां꣢३꣱ ना꣡म꣢ तृ꣣ती꣢य꣣म꣡धि꣢ रोच꣣नं꣢ दि꣣वः꣢ ॥७०१

ऋ꣣त꣡स्य꣢ । जि꣣ह्वा꣢ । प꣣वते । म꣡धु꣢꣯ । प्रि꣣य꣢म् । व꣣क्ता꣢ । प꣡तिः꣢꣯ । धि꣣य꣢ । अ꣡स्याः꣢ । अ꣡दा꣢꣯भ्यः । अ । दा꣣भ्यः । द꣡धा꣢꣯ति । पु꣣त्रः꣢ । पु꣣त् । त्रः꣢ । पि꣣त्रोः꣢ । अ꣣पीच्य꣢म् । ना꣡म꣢꣯ । तृ꣣ती꣡य꣢म् । अ꣡धि꣢꣯ । रो꣣चन꣢म् । दि꣣वः꣢ ॥७०१॥

Mantra without Swara
ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः । दधाति पुत्रः पित्रोरपीच्यां३ नाम तृतीयमधि रोचनं दिवः ॥७०१

ऋतस्य । जिह्वा । पवते । मधु । प्रियम् । वक्ता । पतिः । धिय । अस्याः । अदाभ्यः । अ । दाभ्यः । दधाति । पुत्रः । पुत् । त्रः । पित्रोः । अपीच्यम् । नाम । तृतीयम् । अधि । रोचनम् । दिवः ॥७०१॥

Samveda - Mantra Number : 701
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(ऋतस्य) सत्यस्वरूपस्य पवमानस्य सोमस्य जगदीश्वरस्य (जिह्वा) वेदवाणी। [जिह्वेति वाङ्नाम। निघं० १।११, जिह्वा सरस्वती। श० १२।९।१।१४।] (प्रियम्) मनोहरम् (मधु) अध्यात्मज्ञानरूपं मधु (पवते) क्षरति। (अस्याः धियः) अस्याः ज्ञानमय्याः वेदवाण्याः (वक्ता) उच्चारयिता (पतिः) जगत्पतिः परमेश्वरः (अदाभ्यः) अहिंस्यः, अजरामरः विद्यते। अस्याः वेदवाचः माध्यमेन (पुत्रः) अमृतपुत्रः उपासकः। [शृ॒ण्वन्तु॒ विश्वे॑ अ॒मृत॑स्य पुत्राः। ऋ० १०।१३।१ इति श्रुतेः मानवस्य अमृतपुत्रत्वम्] (पित्रोः) मातापित्रोः (अपीच्यम्) अन्तर्हितम्, अज्ञातम् (दिवः रोचनम्) जीवात्मनः प्रकाशकम् (तृतीयं नाम) तृतीयं पदम् ओंकाररूपम् (अधि दधाति) हृदि धारयति। [यथोक्तम्—‘तद्विष्णोः॑ पर॒मं प॒दं सदा॑ पश्यन्ति सू॒रयः॑। दि॒वी॒व॒ चक्षु॒रात॑तम्’ इति य० ६।५] ॥२॥
Essence
प्रकृतिर्जीवात्मा ओंकारः इति त्रीणि पदानि। ईश्वरचितानां वेदानां रहस्यार्थज्ञानेन मानवः स्वकीयौ मातापितरावप्यतिक्रम्य ओंकाररूपं पदं प्राप्तुमर्हति ॥२॥
Subject
अथेश्वररचितेभ्यो वेदेभ्य उपासकः किं प्राप्नोतीत्याह।
Footnote
१. ऋ० ९।७५।२ ‘रोचनं’ इत्यत्र ‘रोच॒ने’ इति पाठः।