Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 700

1875 Mantra
Devata- पवमानः सोमः Rishi- कविर्भार्गवः Chhand- जगती Swara- निषादः
Mantra with Swara
अ꣣भि꣢ प्रि꣣या꣡णि꣢ पवते꣣ च꣡नो꣢हितो꣣ ना꣡मा꣢नि य꣣ह्वो꣢꣫ अधि꣣ ये꣢षु꣣ व꣡र्ध꣢ते । आ꣡ सूर्य꣢꣯स्य बृह꣣तो꣢ बृ꣣ह꣢꣫न्नधि꣣ र꣢थं꣣ वि꣡ष्व꣢ञ्चमरुहद्विचक्ष꣣णः꣢ ॥७००॥

अ꣣भि꣢ । प्रि꣣या꣡णि꣢ । प꣣वते । च꣡नो꣢꣯हितः । च꣡नः꣢꣯ । हि꣣तः । ना꣡मा꣢नि । य꣣ह्वः꣢ । अ꣡धि꣢꣯ । ये꣡षु꣢꣯ । व꣡र्धते꣢꣯ । आ । सू꣡र्य꣢꣯स्य । बृ꣣ह꣢तः । बृ꣣ह꣢न् । अ꣡धि꣢꣯ । र꣡थ꣢꣯म् । वि꣡ष्व꣢꣯ञ्चम् । वि । स्व꣣ञ्चम् । अरुहत् । विचक्षणः꣢ । वि꣣ । चक्षणः꣢ ॥७००॥

Mantra without Swara
अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते । आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः ॥

अभि । प्रियाणि । पवते । चनोहितः । चनः । हितः । नामानि । यह्वः । अधि । येषु । वर्धते । आ । सूर्यस्य । बृहतः । बृहन् । अधि । रथम् । विष्वञ्चम् । वि । स्वञ्चम् । अरुहत् । विचक्षणः । वि । चक्षणः ॥७००॥

Samveda - Mantra Number : 700
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(चनोहितः) चनसे भोगाय हितः देहं प्रेषितः, (यह्वः) महाबलः (सोमः) जीवात्मा (प्रियाणि) चारूणि (नामानि) नमनयोग्यानि अङ्गानि (पवते) गच्छति, (येषु अधि) येषु अङ्गेषु एषः (वर्धते) महिमानं प्राप्नोति। (बृहन्) महान्, (विचक्षणः) ज्ञानवान् एष जीवात्मा (बृहतः) महतः (सूर्यस्य) सरणकर्त्तुः प्राणस्य। [‘प्रा॒णो ह॒ सू॑र्यः’ इति श्रुतेः। अथ० ११।४।१२।] (वि-स्वञ्चम्) विशेषेण शोभनगतियुक्तम् (रथम् अधि) देहरथम् अधिकृत्य (आ अरुहत्) आरूढोऽस्ति ॥१॥
Essence
आत्मा कर्मफलभोगार्थं प्राणसहचरितं देहमाश्रित्य शुभाशुभान् भोगान् भुङ्क्ते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५५४ क्रमाङ्के परमात्मपक्षे व्याख्याता। अत्र जीवात्मविषयमाह।
Footnote
१. ऋ० ९।७५।१, साम० ५५४।