Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 70

1875 Mantra
Devata- अग्निः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
इ꣣न्धे꣢꣫ राजा꣣ स꣢म꣣र्यो꣡ नमो꣢꣯भि꣣र्य꣢स्य꣣ प्र꣡ती꣢क꣣मा꣡हु꣢तं घृ꣣ते꣡न꣢ । न꣡रो꣢ ह꣣व्ये꣡भि꣢रीडते स꣣बा꣢ध꣡ आ꣡ग्निरग्र꣢꣯मु꣣ष꣡सा꣢मशोचि ॥७०॥

इ꣣न्धे꣢ । रा꣡जा꣢꣯ । सम् । अ꣣र्यः꣢ । न꣡मो꣢꣯भिः । य꣡स्य꣢꣯ । प्र꣡ती꣢꣯कम् । आ꣡हु꣢꣯तम् । आ । हु꣣तम् । घृते꣡न꣢ । न꣡रः꣢꣯ । ह꣣व्ये꣡भिः꣢ । ई꣣डते । स꣣बा꣡धः꣢ । स꣣ । बा꣡धः꣢꣯ । आ । अ꣣ग्निः꣢ । अ꣡ग्र꣢꣯म् । उ꣣ष꣡सा꣢म् । अ꣣शोचि ॥७०॥

Mantra without Swara
इन्धे राजा समर्यो नमोभिर्यस्य प्रतीकमाहुतं घृतेन । नरो हव्येभिरीडते सबाध आग्निरग्रमुषसामशोचि ॥

इन्धे । राजा । सम् । अर्यः । नमोभिः । यस्य । प्रतीकम् । आहुतम् । आ । हुतम् । घृतेन । नरः । हव्येभिः । ईडते । सबाधः । स । बाधः । आ । अग्निः । अग्रम् । उषसाम् । अशोचि ॥७०॥

Samveda - Mantra Number : 70
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—यज्ञाग्निपरः। (अर्यः) हविर्वहनकर्मणाम् ईश्वरः। ‘अर्यः स्वामिवैश्ययोः।’ अ० ३।१।३ इत्यनेन स्वाम्यर्थे निपातितः। (राजा) वेद्यां राजमानो यज्ञाग्निः (नमोभिः) सुगन्धिमिष्टपुष्ट्यारोग्यवर्धकैः हविष्यान्नैः। नमः इत्यन्ननाम। निघं० २।७। (सम् इन्धे२) सम्यक् प्रदीप्यते, (यस्य) यज्ञाग्नेः (प्रतीकम्) ज्वालारूपं मुखम् (घृतेन) आज्येन (आहुतम्) प्राप्ताहुति भवतीति शेषः। (सबाधः) ऋत्विजः। सबाध इति ऋत्विङ्नाम। निघं० २।१८ (नरः) मनुष्याः, तम् अग्निम् (हव्येभिः) हविर्भिः (ईडते) सत्कुर्वन्ति। (अग्निः) स यज्ञवह्निः (उषसाम्) उषःकालानाम् (अग्रम्) संमुखम् (आ अशोचि) आ समन्तात् यज्ञवेद्यां प्रदीप्यते। अजी॑जन॒न्त्सू॑र्यं य॒ज्ञम॒ग्निम्। ऋ० ७।७८।३ इत्युषसाम् अग्नेर्जननीरूपेण वर्णनात् ॥ अथ द्वितीयः—परमात्मपरः। (अर्यः) सर्वेषां स्वामी (राजा) सम्राट् परमात्मा (नमोभिः) नमस्कारैः (सम् इन्धे) हृदये सम्यक् प्रकाशते (यस्य) परमात्मनः (प्रतीकम्) स्वरूपम् (घृतेन) तेजसा। तेजो वै घृतम्। तै० सं० २।२।९।४। घृ क्षरणदीप्त्योः। (आहुतम्) व्याप्तं वर्तते। (सबाधः) बाधाभिभूताः। बाधते इति बात्, क्विपि रूपम्, तया सह विद्यमाना; सबाधः। (नरः) मनुष्याः। नृ शब्दस्य प्रथमाबहुवचने रूपम्। तं परमात्माग्निम् (हव्येभिः) हव्यैः, आत्मसमर्पणरूपहविर्भिः (ईडते) पूजयन्ति, बलं याचन्ते वा। ईडते याचन्ति स्तुवन्ति वर्द्धयन्ति पूजयन्तीति वा। निरु० ८।१। (अग्निः) स परमात्मा (उषसाम्) प्रभातवेलानाम् (अग्रम्) अग्रे (आ अशोचि) उपासकानां हृदये प्रदीप्यते। प्रभातकाले धारणाध्यानसमाधीनां सुकरत्वाद् हृदये परमेश्वरदीप्तेरनुभवः सुलभ एवेति भावः ॥८॥ अत्र श्लेषालङ्कारः। यज्ञाग्निपरमेश्वराग्न्योरुपमानोपमेयभावश्च ध्वन्यते ॥८॥
Essence
यज्ञाग्निर्यज्ञवेद्यां हविर्भिरिव मनुष्यैः परमात्मा हृदये नमस्कारैः प्रदीपनीयः ॥८॥
Subject
अथ यज्ञाग्निसादृश्येन परमात्माग्निविषयमाह।
Footnote
१. ऋ० ७।८।१ अग्निरग्र उषसामशोचि इति पाठः। ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं राजा कीदृशः स्यादिति पक्षे व्याख्यातवान्। २. समिन्धे सम्यक् दीप्यते इत्यर्थः—इति वि०। समिध्यते—इति भ०, सा०।