Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 7

1875 Mantra
Devata- अग्निः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- गायत्री Swara- षड्जः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
ए꣢ह्यू꣣ षु꣡ ब्रवा꣢꣯णि꣣ ते꣡ऽग्न꣢ इ꣣त्थे꣡त꣢रा꣣ गि꣡रः꣢ । ए꣣भि꣡र्व꣢र्धास꣣ इ꣡न्दु꣢भिः ॥७॥

आ꣢ । इ꣣हि । उ । सु꣢ । ब्र꣡वा꣢꣯णि । ते꣣ । अ꣡ग्ने꣢꣯ । इ꣣त्था꣢ । इ꣡त꣢꣯राः । गि꣡रः꣢꣯ । ए꣣भिः꣢ । व꣣र्धासे । इ꣡न्दु꣢꣯भिः ॥७॥

Mantra without Swara
एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिरः । एभिर्वर्धास इन्दुभिः ॥

आ । इहि । उ । सु । ब्रवाणि । ते । अग्ने । इत्था । इतराः । गिरः । एभिः । वर्धासे । इन्दुभिः ॥७॥

Samveda - Mantra Number : 7
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) परमात्मन् ! (आ इहि उ) आ याहि तावन्मदीये हृत्प्रदेशे। संहितायाम् ऊ इत्यत्र इकः सुञि अ० ६।३।१३४ इति दीर्घः। अहम् (ते) तुभ्यम् (इत्था) सत्यभावेन। इत्थेति सत्यनाम। निघं० ३।१०। (इतराः२) सामान्यविलक्षणाः३ गिरः वेदवाचः सु सम्यक्, पूर्णमनोयोगेनेति भावः। संहितायाम् सुञः अ० ८।३।१०७ इति षत्वम्। (ब्रवाणि) वदानि, वेदवाग्भिस्त्वां स्तवानीत्यर्थः। त्वम् (एभिः) एतैः मया समर्प्यमाणैः (इन्दुभिः) भावभरितैर्भक्तिरसरूपैः सोमैः। इन्दुरिति सोम उच्यते। सोमो वा इन्दुः। श० २।२।३।२३। (बर्धासे) वर्धस्व, आप्यायितो भव। इन्दुशब्दस्य श्लिष्टत्वाद् यथा चन्द्रकिरणैः समुद्रा वनस्पतयश्च वर्धन्ते तथेति ध्वन्यते। वृधु वृद्धौ इति धातोर्लेटि लेटोऽडाटौ अ० ३।४।९४ इत्याडागमः ॥७॥
Essence
मनुष्यकृता वाचः सामान्याः, वेदवाचस्तु परमेश्वरकृतत्वात् तद्विलक्षणाः। तासु प्रत्येकं पदं साभिप्रायं विविधार्थप्रकाशकं च। उपासका जनाश्चेत् ताभिर्गीर्भिः परमात्मानं भजेरन् तं प्रति स्वकीयान् भक्तिरससोमांश्च प्रवाहयेयुस्तदाऽसौ चन्द्रकिरणैः समुद्रवनस्पत्यादिरिव तैः सोमरसैस्तृप्तिं नीतस्तेषां हृदये परमां वृद्धिं गतस्तान् कृतकृत्यान् विदध्यात् ॥७॥
Subject
तं परमात्मानमहं वेदवाग्भिः स्तौमीत्याह।
Footnote
१. ऋ० ६।१६।१६। य० २६।१३। साम० ७०५। दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्ये यजुर्भाष्ये च विद्वत्पक्षे व्याख्यातः। २. इत्था सत्या इत्यर्थः। इतरा अन्या असत्याः इति वि०। इत्था इति निपातः अमुत्रेत्यर्थे च वर्तते। अत्र तु दूरस्य लक्षणा। दूरे सन्त्विति शेषः। इतरा गिरः शत्रूणां सम्बन्धिन्यः दुष्कृता इत्यर्थः। असूर्या ह वा इतरा गिरः (ऐ० ब्रा० ३।४९) इति ह्यैतरेयकम् इति भ०। इत्था इत्थम् अनेन प्रकारेण सुष्ठु ब्रवाणि इत्याशास्यते। ताः स्तुतीः शृण्वित्यर्थः। उ इत्येताः इतराः असुरैः कृताः स्तुतीः शृण्विति शेषः इति सा०। ३. Other; different, that is, more excellent—Griffith.