Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 699

1875 Mantra
Devata- पवमानः सोमः Rishi- अन्धीगुः श्यावाश्विः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
तं꣢ दु꣣रो꣡ष꣢म꣣भी꣢꣫ नरः꣣ सो꣡मं꣢ वि꣣श्वा꣡च्या꣢ धि꣣या꣢ । य꣣ज्ञा꣡य꣢ स꣣न्त्व꣡द्र꣢यः ॥६९९॥

तम् । दु꣣रो꣡ष꣢म् । अ꣣भि꣢ । न꣡रः꣢꣯ । सो꣡म꣢꣯म् । वि꣣श्वा꣡च्या꣢ । धि꣣या꣢ । य꣣ज्ञा꣡य꣢ । स꣣न्तु । अ꣡द्र꣢꣯यः । अ । द्र꣣यः ॥६९९॥

Mantra without Swara
तं दुरोषमभी नरः सोमं विश्वाच्या धिया । यज्ञाय सन्त्वद्रयः ॥

तम् । दुरोषम् । अभि । नरः । सोमम् । विश्वाच्या । धिया । यज्ञाय । सन्तु । अद्रयः । अ । द्रयः ॥६९९॥

Samveda - Mantra Number : 699
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(दुरोषम्२) दुर्दहं दुःशोषं वा। [दुःखेन उष्यते दह्यते इति दुरोषः तम्। दुर्पूर्वः उष दाहे भ्वादिः।] पूर्ववर्णितम् (सोमम्) ज्ञानकर्मोपासनारूपम् सोमरसम् (नरः) सज्जनाः (विश्वाच्या३) सर्वान् सद्विषयान् व्याप्नुवानया। [विश्वान् सर्वान् विवेचनीयान् विषयान् प्रति अञ्चति गच्छतीति तया।] (धिया) बुद्ध्या (अभि) अभिषुण्वन्तु। [उपसर्गबलेन योग्यक्रियाध्याहारः।] येन (अद्रयः४) केनापि आन्तरिकेण बाह्येन वा शत्रुणा अविदृताः ते (यज्ञाय) ईशपूजनाय विद्वत्सत्काराय संगतिकरणाय परोपकाराय च (सन्तु) भवन्तु ॥३॥
Essence
सज्ज्ञानं सत्कर्म परमेश्वरोपासनां च ये स्वजीवने गृह्णन्ति ते सदा विजयिनो यज्ञपरायणाश्च जायन्ते ॥३॥
Subject
अथ पुनरपि तमेव विषयमाह।
Footnote
१. ऋ० ९।१०१।३ ‘य॒ज्ञं हि॑न्व॒न्त्यद्रि॑भिः’ इति तृतीयः पादः। २. रोषतेहिंसार्थस्य रेफलोपे दीर्घाभावे ओषतेर्दाहार्थस्य वा णलि रूपमिति सन्देहादनवग्रहः—इति सा०। दुरोषम् अरोषम्—इति वि०। ३. विश्वाच्या विश्वगामिन्या—इति वि०। सर्वान् कामान् अञ्चित्र्या कामान् प्रापयित्र्या—इति सा०। ४. अद्रयः मेघाः वर्षस्वभावाः अथवा अद्रयः अभिषवग्राव्णः—इति वि०। अद्रयः अवारणयुक्ताः इति सा०।