Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 698

1875 Mantra
Devata- पवमानः सोमः Rishi- अन्धीगुः श्यावाश्विः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
यो꣡ धार꣢꣯या पाव꣣क꣡या꣢ परिप्र꣣स्य꣡न्द꣢ते सु꣣तः꣢ । इ꣢न्दु꣣र꣢श्वो꣣ न꣡ कृत्व्यः꣢꣯ ॥६९८॥

यः । धा꣡र꣢꣯या । पा꣣वक꣡या꣢ । प꣣रिप्रस्य꣡न्द꣢ते । प꣣रि । प्रस्य꣡न्द꣢ते । सु꣣तः꣢ । इ꣡न्दुः꣢꣯ । अ꣡श्वः꣢꣯ । न । कृ꣡त्व्यः꣢꣯ ॥६९८॥

Mantra without Swara
यो धारया पावकया परिप्रस्यन्दते सुतः । इन्दुरश्वो न कृत्व्यः ॥

यः । धारया । पावकया । परिप्रस्यन्दते । परि । प्रस्यन्दते । सुतः । इन्दुः । अश्वः । न । कृत्व्यः ॥६९८॥

Samveda - Mantra Number : 698
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सुतः) निष्पादितः (यः) यः (पावकया) पवित्रतादायिन्या (धारया) प्रवाहसन्तत्या (परिप्रस्यन्दते) सर्वतः प्रवहति, सः (इन्दुः) ज्ञानकर्मोपासनाजन्यः आनन्दः (कृत्व्यः) संग्रामकर्मणि कुशलः (अश्वः न) तुरगः इव (कृत्व्यः२) कृतार्थयिता भवति। [कृत्वी इति कर्मनाम, निघं० २।१, तत्र साधुः कृत्व्यः। साध्वर्थे यत्।] ॥२॥ अत्र श्लिष्टोपमालङ्कारः ॥२॥
Essence
धन्याः खलु ते ये ज्ञानकर्मोपासनाजन्यं प्रचुरमानन्दमनुभवन्ति ॥२॥
Subject
अथ ज्ञानकर्मोपासनाजन्यमानन्दं वर्णयति।
Footnote
१. ऋ० ९।१०१।२ २. कृत्व्यः कृतिमान् वेगवानित्यर्थः—इति वि०। कर्मणि साधुः—इति सा०। कृत्व्यान् कर्मसु साधून्—इति ऋ० १।१२१।७ भाष्ये द०।