Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 697

1875 Mantra
Devata- पवमानः सोमः Rishi- अन्धीगुः श्यावाश्विः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
पु꣣रो꣡जि꣢ती वो꣣ अ꣡न्ध꣢सः सु꣣ता꣡य꣢ मादयि꣣त्न꣡वे꣢ । अ꣢प꣣ श्वा꣡न꣢ꣳ श्नथिष्टन꣣ स꣡खा꣢यो दीर्घजि꣣꣬ह्व्य꣢꣯म् ॥६९७॥

पु꣣रो꣡जि꣢ती । पु꣣रः꣢ । जि꣣ती । वः । अ꣡न्ध꣢꣯सः । सु꣣ता꣡य꣢ । मा꣣दयित्न꣡वे꣢ । अ꣡प꣢꣯ । श्वा꣡न꣢꣯म् । श्न꣣थिष्टन । श्नथिष्ट । न । स꣡खा꣢꣯यः । स । खा꣣यः । दी꣣र्घजि꣡ह्व्य꣣म् । दी꣣र्घ । जि꣡ह्व्य꣢꣯म् ॥६९७॥

Mantra without Swara
पुरोजिती वो अन्धसः सुताय मादयित्नवे । अप श्वानꣳ श्नथिष्टन सखायो दीर्घजिह्व्यम् ॥

पुरोजिती । पुरः । जिती । वः । अन्धसः । सुताय । मादयित्नवे । अप । श्वानम् । श्नथिष्टन । श्नथिष्ट । न । सखायः । स । खायः । दीर्घजिह्व्यम् । दीर्घ । जिह्व्यम् ॥६९७॥

Samveda - Mantra Number : 697
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सखायः) सुहृदः ! (वः) यूयम् (अन्धसः) ज्ञानकर्मोपासनारूपस्य सोमस्य (पुरोजिती) अग्रेजयाय, अपि च तस्य सोमस्य (मादयित्नवे) आनन्दप्रदाय (सुताय) रसाय, रसं प्राप्तुमित्यर्थः (दीर्घजिह्व्यम्) दीर्घजिह्वायुक्तं, दूरस्थानामपि विषयाणां ग्रहणे समर्थमित्यर्थः। (श्वानम्) दिव्यं श्वानं, जविष्ठं मनः इत्यर्थः। [श्वयति दूरं गच्छतीति श्वा। ‘श्वन्नुक्षन्०’ उ० १।१५९ इत्यनेन कनिन्प्रत्ययान्तो निपात्यते] (अपश्नथिष्टन) अपश्नथयथ, प्रवर्तयत इति यावत्। [अपपूर्वः श्रथ दौर्बल्ये चुरादिः, रेफस्य नकारश्छान्दसः।] ॥१॥
Essence
ज्ञानकर्मोपासनासु मनः प्रवर्त्य तज्जन्य आनन्दः सर्वैः प्राप्तव्यः ॥१॥
Subject
प्रथमा ऋक् पूर्वार्चिके ५४५ क्रमाङ्के ब्रह्मानन्दविषये व्याख्याता। अत्र प्रकृतं ज्ञानकर्मोपासनाविषयमाह।
Footnote
१. ऋ० ९।१०१।१, साम० ५४५।