Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 696

1875 Mantra
Devata- पवमानः सोमः Rishi- अग्निश्चाक्षुषः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
अ꣣स्ये꣢꣫दिन्द्रो꣣ म꣢दे꣣ष्वा꣢ ग्रा꣣भं गृ꣢भ्णाति सान꣣सि꣢म् । व꣡ज्रं꣢ च꣣ वृ꣡ष꣢णं भर꣣त्स꣡म꣢प्सु꣣जि꣢त् ॥६९६॥

अ꣡स्य꣢ । इत् । इ꣡न्द्रः꣢꣯ । म꣡देषु꣢꣯ । आ । ग्रा꣣भ꣢म् । गृ꣣भ्णाति । सानसि꣢म् । व꣡ज्र꣢꣯म् । च꣣ । वृ꣡ष꣢꣯णम् । भ꣣रत् । स꣢म् । अ꣣प्सुजि꣢त् । अ꣣प्सु । जि꣢त् ॥६९६॥

Mantra without Swara
अस्येदिन्द्रो मदेष्वा ग्राभं गृभ्णाति सानसिम् । वज्रं च वृषणं भरत्समप्सुजित् ॥

अस्य । इत् । इन्द्रः । मदेषु । आ । ग्राभम् । गृभ्णाति । सानसिम् । वज्रम् । च । वृषणम् । भरत् । सम् । अप्सुजित् । अप्सु । जित् ॥६९६॥

Samveda - Mantra Number : 696
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अस्य इत्) अस्य ज्ञानकर्मोपासनारूपस्य सोमरसस्य एव (मदेषु) उत्साहेषु (इन्द्रः) वीरो जनः (सानसिम्) संभजनीयम् (ग्राभम्) ग्रहीतव्यं धनुः। [गृह्यते इति ग्राहः, स एव ग्राभः, ‘हृग्रहोर्भश्छन्दसि’ इति हस्य भः।] (आ गृभ्णाति) आगृह्णाति। [ग्रह धातोः पूर्ववद् हस्य भः।] (च) किञ्च, (अप्सुजित्) समुद्रजलेषु अन्तरिक्षे चापि शत्रूणां जेता स वीरः। [आपः इति अन्तरिक्षनाम उदकनाम च। निघं० १।३, १।१२।] (वृषणम्) गुलिकानां गोलकानां वा वर्षकम् (वज्रम्) भुशुण्डीशतघ्न्यादिकम् वज्रायुधम् (संभरत्) संदधाति ॥३॥
Essence
ज्ञानकर्मोपासनारूपस्य दिव्यस्य सोमरसस्य पानादपूर्वोत्साहसम्पन्नो नरो भुवि वा जले वान्तरिक्षे वा क्वापि विद्यमानान् दुर्दान्तानपि रिपून् जेतुं पारयति ॥३॥
Subject
अथ पुनस्तमेव विषयमाह।
Footnote
१. ऋ० ९।१०६।३, गृभ्णीत इति भेदः।