Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 695

1875 Mantra
Devata- पवमानः सोमः Rishi- अग्निश्चाक्षुषः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
अ꣣यं꣡ भरा꣢꣯य सान꣣सि꣡रिन्द्रा꣢꣯य पवते सु꣣तः꣢ । सो꣢मो꣣ जै꣡त्र꣢स्य चेतति꣣ य꣡था꣢ वि꣣दे꣢ ॥६९५॥

अ꣣य꣢म् । भ꣡रा꣢꣯य । सा꣣नसिः꣢ । इ꣡न्द्रा꣢꣯य । प꣣वते । सुतः꣢ । सो꣡मः꣢꣯ । जै꣡त्र꣢स्य । चे॓तति । य꣡था꣢ । वि꣢दे꣢ ॥६९५॥

Mantra without Swara
अयं भराय सानसिरिन्द्राय पवते सुतः । सोमो जैत्रस्य चेतति यथा विदे ॥

अयम् । भराय । सानसिः । इन्द्राय । पवते । सुतः । सोमः । जैत्रस्य । चे॓तति । यथा । विदे ॥६९५॥

Samveda - Mantra Number : 695
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(भराय) संग्रामाय, देवासुरसंग्रामं विजेतुमित्यर्थः (सानसिः२) संभजनीयः। [सानसिवर्णसिपर्णसि०। उ० ४।१०८ इत्यनेन संभजनार्थात् षण धातोः असिप्रत्ययः उपधावृद्धिश्च।] (सुतः) आचार्येण शिष्ये प्रेरितः (अयम्) एष ज्ञानकर्मोपासनारूपः सोमरसः (इन्द्राय) आत्मने (पवते) प्रवहति। [पवते गतिकर्मा। निघं० २।१४।] (जैत्रस्य) विजयशीलस्य तस्य इन्द्रस्य जीवात्मनः सः (सोमः) ज्ञानकर्मोपासनारसः (चेतति) सदैव जागृयात्, (यथा) येन, सः (विदे) सर्वदा कर्तव्याकर्तव्यं विजानीयात्। [विद ज्ञाने आत्मनेपदं छान्दसम्। वित्ते इति प्राप्ते ‘लोपस्त आत्मनेपदेषु’ इति तकारलोपः] ॥२॥
Essence
ज्ञानं, तदनुकूलं कर्म, परमेश्वरोपासना च सदैव मनुष्यं संसारसमराङ्गणे विजयिनं कुर्वन्ति ॥२॥
Subject
अथ पुनरपि तमेव विषयमाह।
Footnote
१. ऋ० ९।१०६।२। २. सानसिः साधयिता—इति वि०।