Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 694

1875 Mantra
Devata- पवमानः सोमः Rishi- अग्निश्चाक्षुषः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
इ꣢न्द्र꣣म꣡च्छ꣢ सु꣣ता꣢ इ꣣मे꣡ वृष꣢꣯णं यन्तु꣣ ह꣡र꣢यः । श्रु꣣ष्टे꣢ जा꣣ता꣢स꣣ इ꣡न्द꣢वः स्व꣣र्वि꣡दः꣢ ॥६९४॥

इ꣡न्द्र꣢꣯म् । अ꣡च्छ꣢꣯ । सु꣣ताः꣢ । इ꣣मे꣢ । वृ꣡ष꣢꣯णम् । य꣡न्तु । ह꣡र꣢꣯यः । श्रु꣣ष्टे꣢ । जा꣣ता꣡सः꣢ । इ꣡न्द꣢꣯वः । स्व꣣र्वि꣡दः꣢ । स्वः꣣ । वि꣡दः꣢꣯ ॥६९४॥

Mantra without Swara
इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः । श्रुष्टे जातास इन्दवः स्वर्विदः ॥

इन्द्रम् । अच्छ । सुताः । इमे । वृषणम् । यन्तु । हरयः । श्रुष्टे । जातासः । इन्दवः । स्वर्विदः । स्वः । विदः ॥६९४॥

Samveda - Mantra Number : 694
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सुताः) आचार्येण प्रेरिताः ज्ञानकर्मोपासनारूपाः सोमरसाः (वृषणम्) बलवन्तम् (इन्द्रम्) आत्मानम् (अच्छ) प्रति (यन्तु) गच्छन्तु। (जातासः) जाताः उत्पन्नाः (इन्दवः) चन्द्रकिरणवदाह्लादकः एते रसाः (श्रुष्टे) सद्यः एव (स्वर्विदः) मोक्षसुखस्य लम्भकाः जायन्ताम् ॥१॥
Essence
ज्ञानकर्मोपासनारसा एव यथार्थं सोमाः सन्ति ये पीताः सन्तो मानवमुन्नयन्ति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५६६ क्रमाङ्के ब्रह्मानन्दरसविषये व्याख्याता। अत्र ज्ञानकर्मोपासनारसविषयमाह।
Footnote
१. ऋ० ९।१०६।१, ‘श्रुष्टे’ इत्यत्र ‘श्रुष्टी’ इति पाठः। साम० ५६६।