Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 693

1875 Mantra
Devata- पवमानः सोमः Rishi- गौरिवीतिः शाक्त्यः Chhand- काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
य꣡स्य꣢ ते पी꣣त्वा꣡ वृ꣢ष꣣भो꣡ वृ꣢षा꣣य꣢ते꣣ऽस्य꣢ पी꣣त्वा꣢ स्व꣣र्वि꣡दः꣢ । स꣢ सु꣣प्र꣡के꣢तो अ꣣꣬भ्य꣢꣯क्रमी꣣दि꣢꣫षोऽच्छा꣣ वा꣢जं꣣ नै꣡त꣢शः ॥६९३॥

य꣡स्य꣢꣯ । ते꣣ । पीत्वा꣢ । वृ꣣षभः꣢ । वृ꣣षाय꣡ते꣢ । अ꣣स्य꣢ । पी꣣त्वा꣢ । स्व꣣र्वि꣡दः꣢ । स्वः꣣ । वि꣡दः꣢꣯ । सः । सु꣣प्र꣡के꣢तः । सु꣣ । प्र꣡के꣢꣯तः । अ꣣भि꣢ । अ꣣क्रमीत् । इ꣡षः । अ꣡च्छ꣢꣯ । वा꣡ज꣢꣯म् । न । ए꣡त꣢꣯शः ॥६९३॥

Mantra without Swara
यस्य ते पीत्वा वृषभो वृषायतेऽस्य पीत्वा स्वर्विदः । स सुप्रकेतो अभ्यक्रमीदिषोऽच्छा वाजं नैतशः ॥

यस्य । ते । पीत्वा । वृषभः । वृषायते । अस्य । पीत्वा । स्वर्विदः । स्वः । विदः । सः । सुप्रकेतः । सु । प्रकेतः । अभि । अक्रमीत् । इषः । अच्छ । वाजम् । न । एतशः ॥६९३॥

Samveda - Mantra Number : 693
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे पवमान सोम ! हे पावक रसागार परमात्मन् ! (यस्य ते) यस्य तव शान्तिरसम् (पीत्वा) आस्वाद्य (वृषभः) भक्तिरससेक्ता उपासकः (वृषायते) वर्षको मेघ इव आचरति। यथा मेघः घर्मतप्तानामुपरि शान्तिदायकं वारि वर्षति (तथैवासौ) अशान्तितप्तानामुपरि शान्तिरसं वर्षतीत्यर्थः। [उपमानादाचारे इत्यनुवृत्तौ ‘कर्त्तुः क्यङ् सलोपश्च’ इति वृषशब्दाद् आचारेऽर्थे क्यङ् प्रत्ययः।] (अस्य) तस्यास्य तव शान्तिरसम् (पीत्वा) आस्वाद्य जनाः (स्वर्विदः) मोक्षसुखाधिगन्तारः जायन्ते। (सुप्रकेतः२) प्रकृष्टप्रज्ञः (सः) असौ तव उपासकः (इषः) इच्छासिद्धीः (अभि) अभिलक्ष्य (अक्रमीत्) प्रयाणं कुरुते। कथमिव ? (एतशः) अश्वः। [एतशः इति अश्वनाम। निघं० २।१४।] (न) यथा (वाजम् अच्छ) संग्रामं प्रति क्रामति तथा ॥२॥ ‘वृषभो वृषायते’ इत्यत्र मम्मटमतेन वाचकलुप्तोपमा, दर्पणकारमतेन तु धर्मलुप्तोपमा। ‘वृष, वृषा’ इति छेकानुप्रासः। उत्तरार्धे पूर्णोपमा ॥२॥
Essence
परमेश्वरोपासनया भगवद्भक्तो यथा स्वयं शान्तिमधिगच्छति तथाऽन्येभ्योऽपि शान्तिं वर्षति। तस्य च सर्वेऽपि धर्मानुकूलाः मनोरथाः सद्य एव फलन्ति ॥२॥
Subject
अथ परमात्मनः शान्तिरसविषयमाह।
Footnote
१. ऋ० ९।१०८।२ २. सुप्रकेतः सुगृहः—इति वि०।