Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 691

1875 Mantra
Devata- पवमानः सोमः Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
व꣣रिवोधा꣡त꣢मो भुवो꣣ म꣡ꣳहि꣢ष्ठो वृत्र꣣ह꣡न्त꣢मः । प꣢र्षि꣣ रा꣡धो꣢ म꣣घो꣡ना꣢म् ॥६९१॥

वरिवोधा꣡त꣢मः । व꣣रिवः । धा꣡त꣢꣯मः । भु꣣वः । म꣡ꣳहि꣢꣯ष्ठः । वृ꣣त्र꣡हन्त꣢मः । वृ꣣त्र । ह꣡न्त꣢꣯मः । प꣡र्षि꣢꣯ । रा꣡धः꣢꣯ । म꣣घो꣡ना꣢म् ॥६९१॥

Mantra without Swara
वरिवोधातमो भुवो मꣳहिष्ठो वृत्रहन्तमः । पर्षि राधो मघोनाम् ॥

वरिवोधातमः । वरिवः । धातमः । भुवः । मꣳहिष्ठः । वृत्रहन्तमः । वृत्र । हन्तमः । पर्षि । राधः । मघोनाम् ॥६९१॥

Samveda - Mantra Number : 691
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र परमात्मन् ! त्वम् (वरिवोधातमः) धनानाम् अतिशयेन धारयिता। [वरिवः इति धननाम निघ० २।१०।] (मंहिष्ठः२) दातृतमः [मंहते दानकर्मा। निघ० ३।२०।] (वृत्रहन्तमः) पापानाम् अतिशयेन हन्ता च (भुवः) जातोऽसि। त्वमेव (मघोनाम्) भौतिकधनवताम् अस्माकम् (राधः) सत्यन्यायदयामोक्षादिकं दिव्यं धनम् (पर्षि) प्रयच्छ। [पृ पालनपूरणयोः जुहोत्यादिः, लेटि मध्यमैकवचने छान्दसं रूपम्।] ॥३॥
Essence
स एव वस्तुतो धनिको यो भौतिकधनेन साकमध्यात्मं धनमपि समर्जति ॥३॥
Subject
अथ परमात्मानं प्रार्थयते।
Footnote
१. ऋ० ९।१।२, ‘भुवो’ इत्यत्र ‘भव’ इति पाठः। २. मंहिष्ठः मंहनीयतमः—इति वि०।