Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 690

1875 Mantra
Devata- पवमानः सोमः Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
र꣣क्षोहा꣢ वि꣣श्व꣡च꣢र्षणिर꣣भि꣢꣫ योनि꣣म꣡यो꣢हते । द्रो꣡णे꣢ स꣣ध꣢स्थ꣣मा꣡स꣢दत् ॥६९०॥

र꣣क्षोहा꣢ । र꣣क्षः । हा꣢ । वि꣣श्व꣡च꣢र्षणिः । वि꣣श्व꣢ । च꣣र्षणिः । अ꣣भि꣢ । यो꣡नि꣢꣯म् । अ꣡यो꣢꣯हते । अ꣡यः꣢꣯ । ह꣣ते । द्रो꣡णे꣢꣯ । स꣣ध꣡स्थ꣢म् । स꣣ध꣢ । स्थ꣣म् । आ꣢ । अ꣣सदत् ॥६९०॥

Mantra without Swara
रक्षोहा विश्वचर्षणिरभि योनिमयोहते । द्रोणे सधस्थमासदत् ॥

रक्षोहा । रक्षः । हा । विश्वचर्षणिः । विश्व । चर्षणिः । अभि । योनिम् । अयोहते । अयः । हते । द्रोणे । सधस्थम् । सध । स्थम् । आ । असदत् ॥६९०॥

Samveda - Mantra Number : 690
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(रक्षोहा) रक्षसां कामक्रोधलोभमोहादीनां हन्ता, (विश्वचर्षणिः) विश्वात्मकस्य परमात्मनो दर्शयिता ब्रह्मज्ञानरसरूपः सोमः (योनिम्) शरीरस्थित्यादिकारणभूतम्, (सधस्थम्) सह तिष्ठन्ति सर्वैः ज्ञानेन्द्रियैरुपलब्धानि ज्ञानानि अत्र इति सधस्थः आत्मा तम् (अभि) अभिलक्ष्य, तं प्राप्तुमित्यर्थः (अयोहते) यमनियमादिरूपैः अयोभिः हते ताडिते, संस्कृते इति यावत् (द्रोणे) मनोरूपे द्रोणकलशे (आ असदत्) आसन्नो भवति ॥२॥२
Essence
गुरुभिः समित्पाणिं शिष्यं प्रति प्रवाहितो ब्रह्मज्ञानरसो मनोमाध्यमेनात्मानमेव प्राप्नोति ॥२॥
Subject
अथ पुनरपि तमेव विषयमाह।
Footnote
१. ऋ० ९।१।२, य० २६।२६, यजुषि ‘योनि॒मपो॑हते’ इति पाठः। २. दयानन्दर्षिणा यजुर्भाष्येऽयमपि मन्त्रो विद्वत्पक्षे व्याख्यातः।