Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 69

1875 Mantra
Devata- अग्निः Rishi- वामदेवो गौतमः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
आ꣢ वो꣣ रा꣡जा꣢नमध्व꣣र꣡स्य꣢ रु꣣द्र꣡ꣳ होता꣢꣯रꣳ सत्य꣣य꣢ज꣣ꣳ रो꣡द꣢स्योः । अ꣣ग्निं꣢ पु꣣रा꣡ त꣢नयि꣣त्नो꣢र꣣चि꣢त्ता꣣द्धि꣡र꣢ण्यरूप꣣म꣡व꣢से कृणुध्वम् ॥६९॥

आ꣢ । वः꣣ । रा꣡जा꣢꣯नम् । अ꣣ध्वर꣡स्य꣢ । रु꣣द्र꣢म् । हो꣡ता꣢꣯रम् । स꣣त्यय꣡ज꣢म् । स꣣त्य । य꣡ज꣢꣯म् । रो꣡द꣢꣯स्योः । अ꣣ग्नि꣢म् । पु꣣रा꣢ । त꣣नयित्नोः꣢ । अ꣣चि꣡त्ता꣢त् । अ꣣ । चि꣡त्ता꣢꣯त् । हि꣡र꣢꣯ण्यरूपम् । हि꣡र꣢꣯ण्य । रू꣣पम् । अ꣡व꣢꣯से । कृ꣣णुध्वम् ॥६९॥

Mantra without Swara
आ वो राजानमध्वरस्य रुद्रꣳ होतारꣳ सत्ययजꣳ रोदस्योः । अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम् ॥

आ । वः । राजानम् । अध्वरस्य । रुद्रम् । होतारम् । सत्ययजम् । सत्य । यजम् । रोदस्योः । अग्निम् । पुरा । तनयित्नोः । अचित्तात् । अ । चित्तात् । हिरण्यरूपम् । हिरण्य । रूपम् । अवसे । कृणुध्वम् ॥६९॥

Samveda - Mantra Number : 69
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मनुष्याः ! यूयम् (वः) युष्माकम् (अध्वरस्य) जीवनयज्ञस्य। पुरुषो वाव यज्ञः। छां० उ० ३।१७।१ इत्युपनिषत्प्रामाण्यान्मनुष्यजीवनं यज्ञ एव। (राजानम्) सम्राजम्, (रुद्रम्२) पापिनां रोदयितारं पुण्यात्मनां च दुःखस्य द्रावयितारम्, यद्वा सत्योपदेशप्रदम्। अग्निरपि रुद्र उच्यते। निरु० १०।७, अग्निर्वै रुद्रः। श० ५।३।१।१०। (होतारम्) सृष्टेः प्रदातारं संहर्तारं च। हु दानादनयोः आदाने चेत्येके। (रोदस्योः) द्यावापृथिव्योः। रोदसी इति द्यावापृथिवीनाम। निघं० ३।३०। (सत्ययजम्) सत्यं यथार्थं यष्टारं परस्परं संगमयितारम् (हिरण्यरूपम्) सुवर्णवद् भास्वरम्, ज्योतिर्मयमित्यर्थः। ज्योतिर्हि हिरण्यम्। श० ४।३।१।२१ (अग्निम्) नायकं परमात्मानम् (अवसे) रक्षणाय (तनयित्नोः३) स्तनयित्नोः विद्युद्वद् अकस्मादाक्रमणशीलात् (अचित्तात्४) न विद्यते चित्तं ज्ञानं यस्मिन् तस्माद् मोहावस्थाप्रापकान्मृत्योः (पुरा) पूर्वमेव (आकृणुध्वम्) आसेवध्वम्। कृवि हिंसाकरणयोश्च, स्वादिः ॥७॥५
Essence
मृत्युर्विद्युच्चाकचक्यमिव न जाने कदाऽस्मादागत्य गलग्रहं नः कुर्यादिति हेतोस्तदागमनात् पूर्वमेव विविधगुणगणाढ्यं परमात्मानं संसेव्यास्माभिः स्वात्मा समुद्धर्तव्यः ॥७॥
Subject
अथात्मरक्षायै परमात्मानं सेवध्वमित्युपदिश्यते।
Footnote
१. ऋ० ४।३।१। २. द्रष्टव्यम् १५ संख्याकस्य साममन्त्रस्य भाष्यम्। इयं रौद्रीति केचित्—इति भ०। ३. तनयित्नुः अशनिः, स हि आकस्मिकः, तत्सदृशात्—इति सा०। ४. अचित्तात् न विद्यते चित्तं यस्मिन् तदचित्तम्, चित्तोपलक्षितसर्वेन्द्रियोपसंहारो मरणमिति यावत्, तस्मान्मरणात् पुरा प्रागेव—इति सा०। ५. अत्र सूर्यरूपाग्निदृष्टान्तेन राजप्रजाजनकृत्यमाहेति ऋग्भाष्ये द०।