Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 689

1875 Mantra
Devata- पवमानः सोमः Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
स्वा꣡दि꣢ष्ठया꣣ म꣡दि꣢ष्ठया꣣ प꣡व꣢स्व सोम꣣ धा꣡र꣢या । इ꣡न्द्रा꣢य꣣ पा꣡त꣢वे सु꣣तः꣢ ॥६८९॥

स्वा꣡दि꣢꣯ष्ठया । म꣡दिष्ठ꣢꣯या । प꣡व꣢꣯स्व । सो꣣म । धा꣡र꣢꣯या । इ꣡न्द्रा꣢꣯य । पा꣡त꣢꣯वे । सु꣣तः꣢ ॥६८९॥

Mantra without Swara
स्वादिष्ठया मदिष्ठया पवस्व सोम धारया । इन्द्राय पातवे सुतः ॥

स्वादिष्ठया । मदिष्ठया । पवस्व । सोम । धारया । इन्द्राय । पातवे । सुतः ॥६८९॥

Samveda - Mantra Number : 689
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) ब्रह्मज्ञानरस ! त्वम् (स्वादिष्ठया) स्वादुतमया, (मदिष्ठया) अतिशयेन हर्षप्रदया (धारया) प्रवाहसन्तत्या (पवस्व) अस्मान् पुनीहि। [पूङ् पवने, भ्वादिः।] त्वम् (इन्द्राय) मदीयात्मने (पातवे) पातुम् (सुतः) आचार्यद्वारा प्रेरितोऽसि ॥१॥२
Essence
आचार्याच्छिष्येण यद् भौतिकविज्ञानं ब्रह्मविज्ञानं वा प्राप्यते तत् स्वात्मनि स्थिरत्वेन धारणीयम् ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४६८ क्रमाङ्के परमेश्वरात् प्राप्तव्यस्यानन्दरसस्य विषये व्याख्याता। अत्र आचार्यात् प्राप्तव्यस्य ब्रह्मज्ञानरसस्य विषयो वर्ण्यते।
Footnote
१. ऋ० ९।१।१, य० २६।२५, साम० ४६८। २. दयानन्दर्षिणा यजुर्भाष्ये मन्त्रोऽयं विद्वत्पक्षे व्याख्यातः।