Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 688

1875 Mantra
Devata- इन्द्रः Rishi- कलिः प्रागाथः Chhand- प्रगाथः(विषमा बृहती समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
न꣢꣫ यं दु꣣ध्रा꣡ वर꣢꣯न्ते꣣ न꣢ स्थि꣣रा꣢꣫ मुरो꣣ म꣡दे꣢षु शि꣣प्र꣡मन्ध꣢꣯सः । य꣢ आ꣣दृ꣡त्या꣢ शशमा꣣ना꣡य꣢ सुन्व꣣ते꣡ दाता꣢꣯ जरि꣣त्र꣢ उ꣣꣬क्थ्य꣢꣯म् ॥६८८॥

न । यम् । दु꣣ध्राः꣢ । व꣡र꣢꣯न्ते । न । स्थि꣣राः꣢ । मु꣡रः꣢꣯ । म꣡देषु꣢꣯ । शि꣣प्र꣢म् । अ꣡न्ध꣢꣯सः । यः । आ꣣दृ꣡त्य꣢ । आ꣣ । दृ꣡त्य꣢꣯ । श꣣शमाना꣡य꣢ । सु꣣न्वते꣢ । दा꣡ता꣢꣯ । ज꣣रित्रे꣢ । उ꣣क्थ्य꣢म् ॥६८८॥

Mantra without Swara
न यं दुध्रा वरन्ते न स्थिरा मुरो मदेषु शिप्रमन्धसः । य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम् ॥

न । यम् । दुध्राः । वरन्ते । न । स्थिराः । मुरः । मदेषु । शिप्रम् । अन्धसः । यः । आदृत्य । आ । दृत्य । शशमानाय । सुन्वते । दाता । जरित्रे । उक्थ्यम् ॥६८८॥

Samveda - Mantra Number : 688
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(शिप्रम्) सृप्रं, सर्वान्तर्यामिणम्। [सृप्रः सर्पणात्। सुशिप्रमेतेन व्याख्यातम्। निरु० ६।१७।७२।] (यम्) परमेश्वरम् (अन्धसः) आनन्दरसस्य (मदेषु) तृप्तिप्रदानेषु (दुधाः) दुर्धराः अपि शत्रवः (न वरन्ते) न वारयन्ति। [वृञ् आवरणे चुरादिः, तत्र ‘आधृषाद् वा’ इति नियमेन पक्षे शप्, आत्मनेपदं छान्दसम्।] (न) न च (स्थिराः) अविचलाः (मुरः) मर्त्याः। [म्रियन्ते इति मुरः मर्त्याः।] वरन्ते वारयन्ति, (यः) यश्च परमेश्वरः (शशमानाय२) उद्योगिने, पुरुषार्थिने [शश प्लतुगतौ।] (सुन्वते) भक्तिरसं निष्पादयते (जरित्रे३) स्तोत्रे (उक्थ्यम्) वक्तव्यप्रशंसं दिव्यम् ऐश्वर्यम् (आदृत्य) विदार्य, स्वधनागारात् उद्धृत्य इति भावः, (दाता) अर्पयिता, भवतीति शेषः ॥२॥
Essence
यदा परमेश्वरः स्वोपासकाय ब्रह्मानन्दवृष्ट्या तर्पयितुकामो जायते तदा तं तस्मात् कोऽपि निवारयितुं न शक्नोति ॥२॥ पूर्वखण्डे गुरुशिष्यवर्णनादस्मिन् खण्डे च जीवात्मपरमात्मनोः परमात्मसाक्षात्कारयितुराचार्यस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन सह संगतिरस्ति।
Subject
अथ स परमेश्वरः कीदृशो यमाचार्यः साक्षात्कारयतीत्याह।
Footnote
१. ऋ० ८।६६।२, ‘मदे॑ सु॒शि॒प्रमन्ध॑सः’ इति पाठः। २-३. वैदिकी स्तुतिस्तु द्विधा भवति शस्त्रैर्मन्त्रैः स्तोमैर्मन्त्रैश्च। तथा चात्र अप्रगीतमन्त्रात्मकशस्त्रैः स्तुतिं कुर्वाणः शशमान उच्यते, तस्मै। किञ्च प्रगीतमन्त्रात्मकस्तोत्रैः स्तुतिकारी स्तोता तस्मै चेति विवेकः इति सामश्रमी।