Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 687

1875 Mantra
Devata- इन्द्रः Rishi- कलिः प्रागाथः Chhand- प्रगाथः(विषमा बृहती समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
त꣡रो꣢भिर्वो वि꣣द꣡द्व꣢सु꣣मि꣡न्द्र꣢ꣳ स꣣बा꣡ध꣢ ऊ꣣त꣡ये꣢ । बृ꣣ह꣡द्गाय꣢꣯न्तः सु꣣त꣡सो꣢मे अध्व꣣रे꣢ हु꣣वे꣢꣫ भरं꣣ न꣢ का꣣रि꣡ण꣢म् ॥६८७॥

त꣡रो꣢꣯भिः । वः꣣ । विद꣡द्व꣢सुम् । वि꣣द꣢त् । व꣣सुम् । इ꣡न्द्र꣢꣯म् । स꣡बा꣢꣯धः । स꣣ । बा꣡धः꣢꣯ । ऊ꣡त꣡ये꣢ । बृ꣡ह꣢त् । गा꣡य꣢꣯न्तः । सु꣣त꣡सो꣢मे । सु꣡त꣢ । सो꣣मे । अध्वरे꣢ । हु꣣वे꣢ । भ꣡र꣢꣯म् । न । का꣣रि꣡ण꣢म् ॥६८७॥

Mantra without Swara
तरोभिर्वो विदद्वसुमिन्द्रꣳ सबाध ऊतये । बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम् ॥

तरोभिः । वः । विदद्वसुम् । विदत् । वसुम् । इन्द्रम् । सबाधः । स । बाधः । ऊतये । बृहत् । गायन्तः । सुतसोमे । सुत । सोमे । अध्वरे । हुवे । भरम् । न । कारिणम् ॥६८७॥

Samveda - Mantra Number : 687
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे जनाः (सबाधः) अविद्याबाधया पीडिताः सन्तः (वः) यूयम् (ऊतये) रक्षायै (तरोभिः) वेगैः (विदद्वसुम्) ब्रह्मविद्याधनस्य लम्भकम् (इन्द्रम्) आचार्यम् (बृहत्) बहु (गायन्तः) प्रशंसन्तः, भवत इति शेषः। अहमपि (सुतसोमे) सुतः निष्पादितः सोमः विद्यारसो यस्मिन् तादृशे (अध्वरे) यज्ञे (भरं न) कुटुम्बभरणक्षमं गृहपतिमिव (कारिणम्) कर्मयोगिनम् आचार्यम् (हुवे) ब्रह्मविद्याग्रहणाय आह्वयामि ॥१॥ अत्रोपमालङ्कारः ॥१॥
Essence
ब्रह्मसाक्षात्काराय जनैः स्वयमपि कृतब्रह्मसाक्षात्कारः सुयोग्यः कश्चिद् गुरुराश्रयणीयः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २३७ क्रमाङ्के परमेश्वरपक्षे व्याख्याता। अत्र ब्रह्मविद्योपदेष्टारमाचार्यमाह्वयति।
Footnote
१. ऋ० ८।६६।१, साम० २३७।