Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 686

1875 Mantra
Devata- इन्द्रः Rishi- नोधा गौतमः Chhand- प्रगाथः(विषमा बृहती समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
द्यु꣣क्ष꣢ꣳ सु꣣दा꣢नुं꣣ त꣡वि꣢षीभि꣣रा꣡वृ꣢तं गि꣣रिं꣡ न पु꣢꣯रु꣣भो꣡ज꣢सम् । क्षु꣣म꣢न्तं꣣ वा꣡ज꣢ꣳ श꣣ति꣡न꣢ꣳ सह꣣स्रि꣡णं꣢ म꣣क्षू꣡ गोम꣢꣯न्तमीमहे ॥६८६॥

द्यु꣣क्ष꣢म् । द्यु꣣ । क्ष꣢म् । सु꣣दा꣡नु꣢म् । सु꣣ । दा꣡नु꣢꣯म् । त꣡वि꣢꣯षीभीः । आ꣡वृ꣢꣯तम् । आ । वृ꣣तम् । गिरि꣢म् । न । पु꣣रुभो꣡ज꣢सम् । पु꣣रु । भो꣡ज꣢꣯सम् । क्षु꣣म꣡न्त꣢म् । वा꣡ज꣢꣯म् । श꣢ति꣡न꣢म् । स꣣हस्रि꣡ण꣢म् । म꣣क्षू꣢ । गो꣡म꣢꣯न्तम् । ई꣣महे ॥६८६॥

Mantra without Swara
द्युक्षꣳ सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम् । क्षुमन्तं वाजꣳ शतिनꣳ सहस्रिणं मक्षू गोमन्तमीमहे ॥

द्युक्षम् । द्यु । क्षम् । सुदानुम् । सु । दानुम् । तविषीभीः । आवृतम् । आ । वृतम् । गिरिम् । न । पुरुभोजसम् । पुरु । भोजसम् । क्षुमन्तम् । वाजम् । शतिनम् । सहस्रिणम् । मक्षू । गोमन्तम् । ईमहे ॥६८६॥

Samveda - Mantra Number : 686
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(द्युक्षम्) अन्तरात्मनि दीप्तिनिवासकम् [द्युं दीप्तिं क्षाययति निवासयति इति द्युक्षः तम्। क्षि निवासगत्योः।] (सुदानुम्) श्रेष्ठदानम्, (तविषीभिः) बलैः। [तविषी इति बलनाम। निघं० २।९।] (आवृतम्) आच्छादितम्, परिपूर्णमिति यावत्, (गिरिं न२) पर्वतमिव मेघमिव वा (पुरुभोजसम्) बहुपालयितारम्, यथा पर्वतो मेघो वा बह्वीभिरोषधीभिः वृष्टिभिश्च पालकः, तथाविधम्। [भुज पालनाभ्यवहारयोः।] (क्षुमन्तम्) बह्वन्नोपेतम्, (शतिनम्) शतैश्वर्ययुक्तम्, (सहस्रिणम्) सहस्रगुणैर्युक्तम्, (गोमन्तम्) गोभिः गतिमद्भिः सूर्यचन्द्रग्रहनक्षत्रादिभिः युक्तम् इन्द्रं परमेश्वरं, वयम् (मक्षु) सद्य एव (वाजम्) अन्नधनज्ञानबलसुखादिकम् (ईमहे) याचामहे। [ईमहे इति याच्ञाकर्मसु पठितम्। निघं० ३।१९।] ॥२॥ अत्रोपमालङ्कारः। विशेषणानां साभिप्रायत्वाच्च परिकरः ॥२॥
Essence
यः परमेश्वरः सकलानां विद्यानामैश्वर्याणां च परमो निधिर्विद्यते तस्योपासनेन सर्वैर्जनैः सर्वा विद्याः सर्वाणि भौतिकाध्यात्मिकान्यैश्वर्याणि च प्राप्तव्यानि ॥२॥
Subject
अथ परमेश्वरं याचते।
Footnote
१. ऋ० ८।८८।२; अथ० २०।९।२, २०।४९।५। २. गिरि न पुरुभोजसम्। न शब्द उपरिष्टादुपचारत्वादुपमार्थीयः। गिरिमिव बहुभोज्यम्। गिरौ पर्वते बहुभोजनतृणकाष्ठान्युपजीवन्ति। अथवा गिरिर्मेघः, तं सर्वं जगदुपजीवति—इति वि०।