Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 685

1875 Mantra
Devata- इन्द्रः Rishi- नोधा गौतमः Chhand- प्रगाथः(विषमा बृहती समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
तं꣡ वो꣢ द꣣स्म꣡मृ꣢ती꣣ष꣢हं꣣ व꣡सो꣢र्मन्दा꣣न꣡मन्ध꣢꣯सः । अ꣣भि꣢ व꣣त्सं꣡ न स्वस꣢꣯रेषु धे꣣न꣢व꣣ इ꣡न्द्रं꣢ गी꣣र्भि꣡र्न꣢वामहे ॥६८५॥

त꣢म् । वः꣣ । दस्म꣢म् । ऋ꣣तीष꣡ह꣢म् । ऋ꣣ती । स꣡ह꣢꣯म् । व꣡सोः꣢꣯ । म꣣न्दान꣢म् । अ꣡न्ध꣢꣯सः । अ꣣भि꣢ । व꣣त्स꣢म् । न । स्व꣡स꣢꣯रेषु । धे꣣न꣡वः꣢ । इ꣡न्द्र꣢꣯म् । गी꣣र्भिः꣢ । न꣣वामहे ॥६८५॥

Mantra without Swara
तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः । अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥

तम् । वः । दस्मम् । ऋतीषहम् । ऋती । सहम् । वसोः । मन्दानम् । अन्धसः । अभि । वत्सम् । न । स्वसरेषु । धेनवः । इन्द्रम् । गीर्भिः । नवामहे ॥६८५॥

Samveda - Mantra Number : 685
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मनइन्द्रियादयः प्राणाः ! वयम् (वः) युष्माकम् (दस्मम्) दोषाणाम् उपक्षपयितारम्। [दसु उपक्षये।] (ऋतीषहम्) ऋतीः आक्रान्तॄन् कामक्रोधाद्यान् शत्रून् सहते अभिभवतीति तम्, (वसोः) निवासकात् (अन्धसः) आनन्दरसात् (मन्दानम्) आनन्दन्तम् (इन्द्रम्) स्वान्तरात्मानम् (अभि) अभिमुखीभूय (स्वसरेषु) दिवसाविर्भावेषु सत्सु, प्रभाते इत्यर्थः। [स्वसराणि अहानि भवन्ति स्वयंसारीणि, अपि वा स्वरादित्यो भवति स एनानि सारयति, निरु० ५।४। स्वराणीति गृहनाम, निघ० ३।४।] (गीर्भिः) उद्बोधनप्रदाभिः वाग्भिः (नवामहे) स्तुवीमहे। [णु स्तुतौ अदादिः, आत्मनेपदं छान्दसम्।] कथमिव ? (स्वसरेषु) गोगृहेषु, गोष्ठेषु, (धेनवः) गावः (वत्सम् अभि) नवजातं तर्णकम् अभिमुखीभूय (न) यथा, (नुवन्ति) हम्भारवं कुर्वन्ति ॥१॥२ अत्र श्लिष्टोपमालङ्कारः ॥१॥
Essence
स्वकीयमन्तरात्मानं समुद्बोध्य वयं सर्वान् दोषान् दूरीकृत्य सद्गुणांश्च प्राप्य परमयशस्विनो भवितुं शक्नुमः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २३६ क्रमाङ्के परमात्मपक्षे व्याख्याता। अत्र जीवात्मविषयः प्रस्तूयते।
Footnote
१. ऋ० ८।८८।१, य० २६।११, साम० २३६, अथ० २०।९।२, २०।४९।५। २. दयानन्दर्षिर्मन्त्रमिमं यजुर्भाष्ये राजप्रजाविषये व्याख्यातवान्।