Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 684

1875 Mantra
Devata- इन्द्रः Rishi- वामदेवो गौतमः Chhand- पादनिचृत् (गायत्री) Swara- षड्जः
Mantra with Swara
अ꣣भी꣢꣫ षु णः꣣ स꣡खी꣢नामवि꣣ता꣡ ज꣢रितॄ꣣णा꣢म् । श꣣तं꣡ भ꣢वास्यू꣣त꣡ये꣢ ॥६८४॥

अ꣣भि꣢ । सु । नः꣣ । स꣡खी꣢꣯नाम् । स । खी꣣नाम् । अविता꣢ । ज꣣रितॄणा꣢म् । श꣣त꣢म् । भ꣣वासि । ऊत꣡ये꣢ ॥६८४॥

Mantra without Swara
अभी षु णः सखीनामविता जरितॄणाम् । शतं भवास्यूतये ॥

अभि । सु । नः । सखीनाम् । स । खीनाम् । अविता । जरितॄणाम् । शतम् । भवासि । ऊतये ॥६८४॥

Samveda - Mantra Number : 684
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र जगदीश्वर ! त्वम् (सखीनाम्) त्वया सह सख्यं स्थापितवताम् (जरितॄणाम्) स्तोतॄणाम् (नः) अस्माकम् (शतम् ऊतये) शतवर्षपर्यन्तं प्रीतये (अविता) रक्षकः (सु) सम्यक् (अभि) अभितः (भवासि) भव। [संहितायाम् अभी षु णः इत्यत्र ‘इकः सुञि’ अ० ६।३।१३४ इति दीर्घः ‘सुञः’ अ० ८।३।१०७ इति षत्वम्। ‘नश्च धातुस्थोरुषुभ्यः’ अ० ८।४।२७ इति णत्वम्। भवासि, भवतेर्लोटि रूपम्।] ॥३॥२
Essence
ये जीवात्मानः परमात्मनः सखायो जायन्ते तेषां स महत् कल्याणं करोति ॥३॥
Subject
अथ परमात्मानं प्रार्थयते।
Footnote
१. ऋ० ४।३१।३, य० २७।४१, ३६।६, अथ० २०।१२४।३। २. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये राजप्रजाधर्मविषये, यजुर्भाष्ये च क्रमशो विद्वद्विषये जगदीश्वरविषये च व्याख्यातवान्।