Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 683

1875 Mantra
Devata- इन्द्रः Rishi- वामदेवो गौतमः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
क꣡स्त्वा꣢ स꣣त्यो꣡ मदा꣢꣯नां꣣ म꣡ꣳहि꣢ष्ठो मत्स꣣द꣡न्ध꣢सः । दृ꣣ढा꣡ चि꣢दा꣣रु꣢जे꣣ व꣡सु꣢ ॥६८३॥

कः꣡ । त्वा꣣ । सत्यः꣢ । म꣡दा꣢꣯नाम् । म꣡ꣳहि꣢꣯ष्ठः । म꣣त्सत् । अ꣡न्ध꣢꣯सः । दृ꣣ढा꣢ । चि꣣त् । आरु꣡जे꣢ । आ꣣ । रु꣡जे꣢꣯ । व꣡सु꣢꣯ ॥६८३॥

Mantra without Swara
कस्त्वा सत्यो मदानां मꣳहिष्ठो मत्सदन्धसः । दृढा चिदारुजे वसु ॥

कः । त्वा । सत्यः । मदानाम् । मꣳहिष्ठः । मत्सत् । अन्धसः । दृढा । चित् । आरुजे । आ । रुजे । वसु ॥६८३॥

Samveda - Mantra Number : 683
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मदीय आत्मन् ! (कः) कमनीयः सर्वातिक्रान्तः, सुखस्वरूपश्च। [कः कमनो वा क्रमणो वा सुखो वा। निरु० १०।२२।] (सत्यः) सत्यमयः, (मदानाम्) आनन्दानाम् (मंहिष्ठः) अतिशयेन दाता (इन्द्रः) परमेश्वरः। [मंहतिः दानकर्मा। निघं० ३।२०। अतिशयेन मंहिता मंहिष्ठः। तुरिष्ठेमेयस्सु अ० ६।४।१५४ इति तृचो लोपः।] (त्वा) त्वाम् (अन्धसः) आनन्दरसात् (मत्सत्) आनन्दयेत्। [मदी हर्षे धातोर्लेटि रूपम्।] अपि च सः (दृढा चित्) दृढानि अपि विघ्नबाधादीनि (आरुजे) आ समन्तात् भङ्क्तुम् (वसु) शक्तिरूपम् ऐश्वर्यं प्रयच्छेदिति शेषः ॥२॥२
Essence
जीवात्मा परमात्मना प्रदत्तेनैव बलेनानन्देन च बलवानानन्दवाँश्च जायते ॥२॥
Subject
पूर्वमन्त्रे जीवात्मनो बलं स्मृत्वाऽथ परमात्मनो महिमानमाह।
Footnote
१. ऋ० ४।३१।२, य० २७।४०, ३६।५, अथ० २०।१२४।२। २. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये ब्रह्मचर्यादिधर्माचरणपक्षे, यजुर्भाष्ये च क्रमशो विद्वत्पक्षे परमेश्वरपक्षे च व्याख्यातवान्।