Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 682

1875 Mantra
Devata- इन्द्रः Rishi- वामदेवो गौतमः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
क꣡या꣢ नश्चि꣣त्र꣡ आ भुव꣢꣯दू꣣ती꣢ स꣣दा꣢वृ꣣धः꣢ स꣡खा꣢ । क꣢या꣣ श꣡चि꣢ष्ठया वृ꣣ता꣢ ॥६८२॥

क꣡या꣢꣯ । नः꣣ । चित्रः꣢ । आ । भु꣣वत् । ऊती꣣ । स꣣दा꣡वृ꣢धः । स꣡दा꣢ । वृ꣣धः । स꣡खा꣢꣯ । स । खा꣣ । क꣡या꣢꣯ । श꣡चि꣢꣯ष्ठया । वृ꣣ता꣢ ॥६८२॥

Mantra without Swara
कया नश्चित्र आ भुवदूती सदावृधः सखा । कया शचिष्ठया वृता ॥

कया । नः । चित्रः । आ । भुवत् । ऊती । सदावृधः । सदा । वृधः । सखा । स । खा । कया । शचिष्ठया । वृता ॥६८२॥

Samveda - Mantra Number : 682
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
एष (चित्रः) अद्भुतबलः (इन्द्रः) शरीराध्यक्षो जीवात्मा (कया) अपूर्वया (ऊती) ऊत्या रक्षया, (कया) अद्वितीयया (शचिष्ठया) अतिशयेन शचीमत्या प्रज्ञावत्या क्रियावत्या वा। [शची इति कर्मनाम प्रज्ञानाम च। अतिशायने इष्ठनि ‘विन्मतोर्लुक्। अ० ५।३।६५’ इति मतुपो लुक्।] (वृता) वृत्त्या च (नः) अस्माकम् (सदावृधः) सदैव वृद्धिकरः (सखा) सुहृत्(भुवत्) भवति ॥१॥२
Essence
यस्यात्मनो बलेन सर्वे सर्वामैहलौकिकीं पारलौकिकीं चोन्नतिं कर्तुं क्षमन्ते स खलु नूनं सर्वैः श्रोतव्यो मन्तव्यो निदिध्यासितव्यश्च ॥१॥
Subject
प्रथमा ऋक् पूर्वार्चिके १६९ क्रमाङ्के परमेश्वरपक्षे राजपक्षे च व्याख्याता। अत्र जीवात्मनो महिमानमाह।
Footnote
१. ऋ० ४।३१।१, य० २७।३९, ३६।४ साम० १६९, अथ० २०।१२४।१। २. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये राजप्रजाधर्मविषये यजुर्भाष्ये च क्रमशो विद्वत्पक्षे परमेश्वरपक्षे च व्याख्यातवान्।