Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 681

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- प्रगाथः(विषमा बृहती समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
न꣡ त्वावा꣢꣯ꣳ अ꣣न्यो꣢ दि꣣व्यो꣡ न पार्थि꣢꣯वो꣣ न꣢ जा꣣तो꣡ न ज꣢꣯निष्यते । अ꣣श्वाय꣡न्तो꣢ मघवन्निन्द्र वा꣣जि꣡नो꣢ ग꣣व्य꣡न्त꣢स्त्वा हवामहे ॥६८१॥

न꣢ । त्वा꣡वा꣢꣯न् । अ꣣न्यः꣢ । अ꣣न् । यः꣢ । दि꣣व्यः꣢ । न । पा꣡र्थि꣢꣯वः । न । जा꣡तः꣢ । न । ज꣡निष्यते । अश्वाय꣡न्तः꣢ । मघ꣣वन् । इन्द्र । वाजि꣡नः꣢ । ग꣣व्य꣡न्तः꣢ । त्वा꣣ । हवामहे ॥६८१॥

Mantra without Swara
न त्वावाꣳ अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते । अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥

न । त्वावान् । अन्यः । अन् । यः । दिव्यः । न । पार्थिवः । न । जातः । न । जनिष्यते । अश्वायन्तः । मघवन् । इन्द्र । वाजिनः । गव्यन्तः । त्वा । हवामहे ॥६८१॥

Samveda - Mantra Number : 681
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे परमेश्वर ! (अन्यः) इतरः (त्वावान्) त्वत्सदृशः (न दिव्यः) न दिवि भवः, (न पार्थिवः) न पृथिव्यां भवः कश्चिद् अस्ति। (न जातः) न पूर्वमुत्पन्नः, (न जनिष्यते) न भाविनि काले कदाचित् उत्पत्स्यते। हे (मघवन्) ऐश्वर्यशालिन् (इन्द्र) परमात्मन् ! (वाजिनः) बलवन्तः पुरुषार्थिनो वयम् (अश्वायन्तः) श्रेष्ठान् प्राणान् कामयमानाः (गव्यन्तः) इन्द्रियधेनूनां श्रेष्ठं ज्ञानकर्मरूप दुग्धं च कामयमानाः (त्वा) त्वाम् (हवामहे) आह्वयामः ॥२॥२ अत्र ‘तस्या मुखेन सदृशं रम्यं नास्ते न वा नयनतुल्यम्’ इति दर्पणोदाहृतवद् (सा० द० १०।२०) उपमानलुप्तोपमालङ्कारः ॥२॥
Essence
अलौकिकमद्वितीयं परमात्मानमुपास्य बलवन्तः पुरुषार्थिनश्च भूत्वा सर्वे ऐहलौकिकं पारलौकिकं च समीहितं प्राप्तुमर्हन्ति ॥२॥
Subject
एवं स्वात्मानमुद्बोध्य परमात्मानमाह्वयति।
Footnote
१. ऋ० ७।३२।२३, य० २७।३६, अथ० २०।१२१।२। २. दयानन्दर्षिर्मन्त्रमिममृग्भाष्ये यजुर्भाष्ये च परमेश्वरेण तुल्योऽधिको वा कोऽपि नास्तीति विषये व्याख्यातवान्।