Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 680

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- प्रगाथः(विषमा बृहती समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
अ꣣भि꣡ त्वा꣢ शूर नोनु꣣मो꣡ऽदु꣢ग्धा इव धे꣣न꣡वः꣢ । ई꣡शा꣢न꣣म꣡स्य जग꣢꣯तः स्व꣣र्दृ꣢श꣣मी꣡शा꣢नमिन्द्र त꣣स्थु꣡षः꣢ ॥६८०॥

अ꣣भि꣢ । त्वा꣣ । शूर । ना꣡नु꣢꣯मः । अ꣡दु꣢꣯ग्धाः । अ । दु꣣ग्धाः । इव । धे꣡न꣢वः । ई꣡शा꣢꣯नम् । अ꣣स्य꣢ । ज꣡ग꣢꣯तः । स्व꣣र्दृ꣡श꣢म् । स्वः꣣ । दृ꣡श꣢꣯म् । ई꣡शा꣢꣯नम् । इ꣣न्द्र । तस्थु꣡षः꣢ ॥६८०॥

Mantra without Swara
अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥

अभि । त्वा । शूर । नानुमः । अदुग्धाः । अ । दुग्धाः । इव । धेनवः । ईशानम् । अस्य । जगतः । स्वर्दृशम् । स्वः । दृशम् । ईशानम् । इन्द्र । तस्थुषः ॥६८०॥

Samveda - Mantra Number : 680
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (शूर इन्द्र) वीर अस्मदीय अन्तरात्मन् ! वयम् (त्वा अभि) त्वाम् अभिलक्ष्य नोनुमः भूयोभूयोऽतिशयेन स्तुमः। [णु स्तुतौ अदादिः, णू स्तवने वा तुदादिः, यङ्लुकि रुपम्।] कथमिव ? (अदुग्धाः) दोहनम् अप्राप्ताः (धेनवः इव) गावो यथा दोहनोत्कण्ठाद्योतनाय नोनुवन्ति रम्भायन्ते। कीदृशं त्वाम् ? (अस्य) एतस्य (जगतः) जङ्गमस्य मनसः। [ध्रु॒वं ज्योति॒र्निहि॑तं दृ॒शये॒ कं मनो॒ जवि॑ष्ठं प॒तय॑त्स्व॒न्तः। ऋ० ६।९।५ दू॒रङ्गमं ज्यो॑तिषां ज्योतिरेकन्तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु। य० ३४।१ इति श्रुतेः।] (ईशानम्) स्वामिनम्, किञ्च (स्वर्दृशम्) स्वः आनन्दः तस्य द्रष्टारम्, अपि च (तस्थुषः) शरीरे अजङ्गमरूपे स्थितस्य अङ्गप्रत्यङ्गजातस्य (ईशानम्) स्वामिनं त्वां वयम् (नोनुमः) भूयो भूयो भृशं स्तुमः, उद्बोधयामः ॥१॥२ अत्र उपमालङ्कारः ॥१॥
Essence
मनुष्यस्यात्मनि महत्यः शक्तयः प्रसुप्ताः सन्ति। सर्वस्यापि शरीरचक्रस्याधिष्ठातारं तं समुद्बोध्य निखिला अपि लौकिक्य आध्यात्मिक्यश्च सिद्धयः प्राप्तुं पार्यन्ते ॥१॥
Subject
प्रथमा ऋक् पूर्वार्चिके २३३ क्रमाङ्के जगदीश्वरविषये व्याख्याता। अत्र स्वकीय आत्मा सम्बोध्यते।
Footnote
१. ऋ० ७।३२।२२, य० २७।३५, अथ० २०।१२१।१, साम० २३३। २. दयानन्दस्वामी मन्त्रमिममृग्भाष्ये परमात्मविषये यजुर्भाष्ये च राजधर्मविषये व्याचष्टे।