Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 68

1875 Mantra
Devata- अग्निः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
वि꣢꣫ त्वदापो꣣ न꣡ पर्व꣢꣯तस्य पृ꣣ष्ठा꣢दु꣣क्थे꣡भि꣢रग्ने जनयन्त दे꣣वाः꣢ । तं꣢ त्वा꣣ गि꣡रः꣢ सुष्टु꣣त꣡यो꣢ वाजयन्त्या꣣जिं꣡ न गि꣢꣯र्व꣣वा꣡हो꣢ जिग्यु꣣र꣡श्वाः꣢ ॥६८॥

वि꣢ । त्वत् । आ꣡पः꣢꣯ । न । प꣡र्व꣢꣯तस्य । पृ꣣ष्ठा꣢त् । उ꣣क्थे꣡भिः꣢ । अ꣣ग्ने । जनयन्त । दे꣣वाः꣢ । तम् । त्वा꣣ । गि꣡रः꣢꣯ । सु꣣ष्टु꣡तयः꣢ । सु꣣ । स्तुत꣡यः꣢ । वा꣣जयन्ति । आजि꣢म् । न । गि꣣र्ववा꣡हः꣢ । गि꣣र्व । वा꣡हः꣢꣯ । जि꣣ग्युः । अ꣡श्वाः꣢꣯ ॥६८॥

Mantra without Swara
वि त्वदापो न पर्वतस्य पृष्ठादुक्थेभिरग्ने जनयन्त देवाः । तं त्वा गिरः सुष्टुतयो वाजयन्त्याजिं न गिर्ववाहो जिग्युरश्वाः ॥

वि । त्वत् । आपः । न । पर्वतस्य । पृष्ठात् । उक्थेभिः । अग्ने । जनयन्त । देवाः । तम् । त्वा । गिरः । सुष्टुतयः । सु । स्तुतयः । वाजयन्ति । आजिम् । न । गिर्ववाहः । गिर्व । वाहः । जिग्युः । अश्वाः ॥६८॥

Samveda - Mantra Number : 68
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) सर्वनायक परमात्मन् ! (देवाः२) सूर्यकिरणाः मरुतो वा (पर्वतस्य) मेघस्य गिरेर्वा। निघण्टौ मेघवाचिषु पठिताः अद्रिपर्वतादयः शब्दाः साधारण्येन मेघवाचिनः शैलवाचिनश्च निरुक्ते प्रोक्ताः। निरु० २।२२। (पृष्ठात्) उपरिप्रदेशात् (आपः न) यथा अपः वर्षोदकानि नदीर्वा वि जनयन्ति तद्वत्। न इत्युपमार्थीयो निरुक्ते वर्णितः। निरु० १।४। आपः३ इत्यत्र द्वितीयार्थे प्रथमा। (देवाः४) विद्वांसः स्तोतारः (उक्थेभिः) वेदमन्त्रैः (त्वत्) तव सकाशात् (आपः) आनन्दधाराः (वि जनयन्त) विशेषेण जनयन्ति, स्वात्मनि प्रवाहयन्तीत्यर्थः। (तम्) तादृशं परोपकारिणम् (त्वा) त्वाम् (सुष्टुतयः) तेषां शोभनस्तुति रूपाः (गिरः) वाचः (वाजयन्ति५) अर्चन्ति। वाजयतिः अर्चतिकर्मा। निघं० ३।१४। (अश्वाः) वाजिनः (आजिं न) यथा युद्धं यजन्ति तथा। आजिः संग्रामनाम। निघं० २।१७। (गिर्व-वाहः) गिरः (स्तुतिवाचः) येषु सन्तीति गिर्वाणः स्तोत्राणि तान् परमेश्वरं प्रति वहन्ति प्रापयन्तीति गिर्ववाहः स्तोतारः६। गिर्वन् इत्यत्र गिर् उपपदात् छन्दसीवनिपौ च वक्तव्यौ।’ अ० ५।२।१०९ वा० इति वनिप्। ततो वह प्रापणे धातोः वहश्च।’ अ० ३।२।६४ इति ण्विः। त्वा त्वां परमात्मानम् (जिग्युः) जयन्ति, अधिगच्छन्ति। अत्र जि जये धातोर्लडर्थे लिट्। सन्लिटोर्जेः।’ अ० ७।३।५७ इति कुत्वम् ॥६॥ अत्र आपो न पर्वतस्य पृष्ठात्, आजिं न अश्वाः इत्युभयत्रोपमालङ्कारः। देवाः आपः इति पदद्वयं च श्लिष्टम् ॥६॥
Essence
यथा सूर्यकिरणाः पवनाश्च मेघेभ्यो वृष्टिजलानि शैलेभ्यश्च नदीः प्रवाहयन्ति, तथा परमेश्वरोपासका विद्वांसो जनाः परमेश्वरस्य सकाशात् शुद्धा आनन्दधाराः स्वान्तःकरणे प्रवाहयन्ति। यथा च शिक्षिता अश्वाः संग्रामभूमिं जयन्ति, तथा ते परमेश्वरं जयन्ति ॥६॥
Subject
अथ स्तोतारो विद्वांसः परमात्मानं प्राप्नुवन्तीत्याह।
Footnote
१. ऋ० ६।२४।६, वि त्वदापो न पर्वतस्य पृष्ठादुक्थेभिरिन्द्रानयन्त यज्ञैः। तं त्वाभिः सुष्टुतिभिर्वाजयन्त आजिं न जग्मुर्गिर्वाहो अश्वाः ॥ इति पाठः। इन्द्रो देवता। २. यथा केचिन्मरुदादयः मेघमस्तकाद् बहूदकं लब्धवन्तः तद्वत् यतो धनं लब्धवन्तः—इति वि०। ३. आप इति प्रथमाबहुवचनं द्वितीयाबहुवचनस्य स्थाने द्रष्टव्यम्—इति वि०। अपः इव—इति भ०। वेदेऽन्यत्रापि अपः इत्यस्य स्थाने आपः इति प्रयुक्तम्, यथा आपो अद्यान्वचारिषम्। ऋ० १।२३।२३, प्रति यदापो अदृश्रमायतीः। ऋ० १०।३०।१३, भिषग्भ्यो भिषक्तरा आपो अच्छा वदामसि। अथ० १९।२।३ इति। ४. हविषां दातृत्वात् देवशब्देनात्र ऋत्विग्यजमाना उच्यन्ते—इति वि०। देवाः स्तोतारः—इति भ०, सा०। ५. वाजयन्ति पूजयन्ति—इति वि०। बलिनं कुर्वन्ति—इति भ०, सा०। ६. गिर्व-वाहः इति पदकारमनुसृत्यास्माभिरेवं व्याख्यातम्। अन्यैस्तु पदमिदं सम्बोधनान्तं स्वीक्रियते, तत्तु चिन्त्यं स्वरविरोधात्। ।हे गिर्ववाहः, गिरः स्तुतयः वा उह्यन्ते यं प्रति स गिर्ववाहः, तस्य सम्बोधनं गिर्ववाहः—इति वि०। हे गिर्ववाहः, गीर्भिः स्तुतिभिः उह्यते प्राप्यते स्तोतॄन् इति गिर्ववाहः। वहेः सर्वधातुभ्यो विहितः असुन् प्रत्ययः, वकारस्य द्वित्वं छान्दसम्—इति भ०। गीर्भिः स्तुतिरूपाभिः वाग्भिः वहनीय अग्ने—इति सा०।