Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 679

1875 Mantra
Devata- पवमानः सोमः Rishi- उशना काव्यः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
ऋ꣢षि꣣र्वि꣡प्रः꣢ पुरए꣣ता꣡ जना꣢꣯नामृ꣣भु꣡र्धीर꣢꣯ उ꣣श꣢ना꣣ का꣡व्ये꣢न । स꣡ चि꣢द्विवेद꣣ नि꣡हि꣢तं꣣ य꣡दा꣢सामपी꣣च्या꣢३꣱ꣳ गु꣢ह्यं꣣ नाम गो꣡ना꣢म् ॥६७९॥

ऋ꣡षिः꣢꣯ । वि꣡प्रः꣢꣯ । वि । प्रः꣣ । पुरएता꣢ । पु꣣रः । एता꣢ । ज꣡ना꣢꣯नाम् । ऋ꣣भुः꣢ । ऋ꣣ । भुः꣢ । धी꣡रः꣢꣯ । उ꣢श꣡ना꣢ । का꣡व्ये꣢꣯न । सः । चि꣣त् । विवेद । नि꣡हि꣢꣯तम् । नि । हि꣣तम् । य꣣त् । आ꣣साम् । अपी꣡च्य꣢म् । गु꣡ह्य꣢꣯म् । ना꣡म꣢꣯ । गो꣡ना꣢꣯म् ॥६७९॥

Mantra without Swara
ऋषिर्विप्रः पुरएता जनानामृभुर्धीर उशना काव्येन । स चिद्विवेद निहितं यदासामपीच्या३ꣳ गुह्यं नाम गोनाम् ॥

ऋषिः । विप्रः । वि । प्रः । पुरएता । पुरः । एता । जनानाम् । ऋभुः । ऋ । भुः । धीरः । उशना । काव्येन । सः । चित् । विवेद । निहितम् । नि । हितम् । यत् । आसाम् । अपीच्यम् । गुह्यम् । नाम । गोनाम् ॥६७९॥

Samveda - Mantra Number : 679
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
अस्माकं गुरुः (ऋषिः) वेदमन्त्राणां रहस्यस्य द्रष्टा, (विप्रः) ब्राह्मणवृत्तिः, (जनानाम्) मनुष्याणाम् (पुरः एता) अग्रगन्ता, (ऋभुः) मेधावी। [ऋभु इति मेधाविनाम। निघं० ३।१५।] (धीरः) धैर्यशाली, (काव्येन) काव्यरचनया (उशना) जगतो हितं कामयमानः, अस्ति इति शेषः। [वष्टि हितं कामयते यः स उशना। वश कान्तौ।] (सः चित्२) स एव (आसां गोनाम्३) एतासां वेदवाचाम् (यत् अपीच्यम्) अन्तर्हितम्। [अपीच्यमिति निर्णीतान्तर्हितनाम। निघं० ३।२५।] [अपीच्यम् अपचितम् अपगतम् अपहितम् अन्तर्हितं वा। निरु० ४।२४।] (गुह्यम्) रहस्यमयम् (नाम) अर्थः (निहितम्) अवस्थितमस्ति, तद् (विवेद) विशेषेण वेत्ति ॥३॥
Essence
यः सुगम्भीरस्यापि वेदादिवाङ्मयस्य रहस्यार्थं हस्तामलकवत् प्रत्यक्षतो वेत्ति स एव ऋषिर्मेधावी विप्रो गुरुत्वेन स्वीकरणीयः ॥३॥ अस्मिन् खण्डे गुरुशिष्यसम्बन्धवर्णनाद् गुरोः सकाशाल्लौकिकीं विद्यां ब्रह्मविद्यां चाधीत्यैव जनाः परब्रह्मसाक्षात्कारं कर्त्तुं प्रभवन्तीत्येतद्वर्णनाच्चास्य खण्डस्य पूर्वखण्डेन सह संगतिरस्तीति वेद्यम्।
Subject
अथ पुनरपि गुरुं वर्णयति।
Footnote
१. ऋ० ९।८७।३ २. चित् शब्दः च शब्दस्यार्थे द्रष्टव्यः—इति वि०। ३. आसां गोनां गवामादित्यरश्मीनां वा—इति वि०।