Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 678

1875 Mantra
Devata- पवमानः सोमः Rishi- उशना काव्यः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
स्वा꣣युधः꣡ प꣢वते दे꣣व꣡ इन्दुर꣢꣯शस्ति꣣हा꣢ वृ꣣ज꣢ना꣣ र꣡क्ष꣢माणः । पि꣣ता꣢ दे꣣वा꣡नां꣢ जनि꣣ता꣢ सु꣣द꣡क्षो꣢ विष्ट꣣म्भो꣢ दि꣣वो꣢ ध꣣रु꣡णः꣢ पृथि꣣व्याः꣢ ॥६७८॥

स्वा꣣युधः꣢ । सु꣣ । आयुधः꣢ । प꣣वते । देवः꣡ । इ꣢न्दुः꣢꣯ । अ꣣शस्तिहा꣢ । अ꣣शस्ति । हा꣢ । वृ꣣ज꣡ना꣢ । र꣡क्ष꣢꣯माणः । पि꣣ता꣢ । दे꣣वा꣡ना꣢म् । ज꣣निता꣢ । सु꣣द꣡क्षः꣢ । सु꣣ । द꣡क्षः꣢꣯ । वि꣡ष्टम्भः꣢ । वि꣣ । स्तम्भः꣢ । दि꣣वः꣢ । ध꣣रु꣡णः꣢ । पृ꣣थिव्याः꣢ ॥६७८॥

Mantra without Swara
स्वायुधः पवते देव इन्दुरशस्तिहा वृजना रक्षमाणः । पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः ॥

स्वायुधः । सु । आयुधः । पवते । देवः । इन्दुः । अशस्तिहा । अशस्ति । हा । वृजना । रक्षमाणः । पिता । देवानाम् । जनिता । सुदक्षः । सु । दक्षः । विष्टम्भः । वि । स्तम्भः । दिवः । धरुणः । पृथिव्याः ॥६७८॥

Samveda - Mantra Number : 678
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(स्वायुधः२) भद्रदण्डः, (देवः) सुखादीनां दाता, (अशस्तिहा३) अप्रशस्तेः हन्ता, (वृजना) वृजनानि बलानि [वृजनम् इति बलनाम। निघं० २।९।] (रक्षमाणः) त्रायमाणः, (पिता) पितृवद् वर्तमानः, (देवानाम्) विदुषाम्, (जनिता) जनयिता, (सुदक्षः) शोभनबलः, (दिवः) विद्यासूर्यस्य (विष्टम्भः) आधारभूतः, (पृथिव्याः) राष्ट्रभूमेः (धरुणः) धारयिता, (इन्दुः) तेजसा दीप्तः गुरुः (पवते) पवित्रतां प्रयच्छति ॥२॥
Essence
मन्त्रोक्तगुणयुक्तं गुरुं ये सेवन्ते ते विद्वांसः सदाचाराः प्रशस्तकीर्तयश्च जायन्ते ॥२॥
Subject
अथ गुरुः किंगुणविशिष्टः स्यादित्याह।
Footnote
१. ऋ० ९।८७।२ ‘वृजना’ इत्यत्र ‘वृ॒जनं॒’ इति पाठः। २. स्वायुधः असिखड्गपरशुप्रासादिभिरायुधैः स्वायुधः। अथवा वज्र-स्रुव-स्रुक्-शम्याकप्रभृतिभिर्यज्ञायुधैः स्वायुधः—इति वि०। ३. अशस्तिहा अशस्तयः शत्रवः, अथवा अशस्ता वाचः अशस्तानि वा कर्माणि ये कुर्वन्ति तेषां हन्ता—इति वि०।