Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 677

1875 Mantra
Devata- पवमानः सोमः Rishi- उशना काव्यः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
प्र꣡ तु द्र꣢꣯व꣣ प꣢रि꣣ को꣢शं꣣ नि꣡ षी꣢द꣣ नृ꣡भिः꣢ पुना꣣नो꣢ अ꣣भि꣡ वाज꣢꣯मर्ष । अ꣢श्वं꣣ न꣡ त्वा꣢ वा꣣जि꣡नं꣢ म꣣र्ज꣢य꣣न्तो꣡ऽच्छा꣢ ब꣣र्ही꣡ र꣢श꣣ना꣡भि꣢र्नयन्ति ॥६७७॥

प्र꣢ । तु । द्र꣣व । प꣡रि꣢꣯ । कोशम् । नि । सी꣣द । नृ꣡भिः꣢꣯ । पु꣡नानः꣢ । अ꣣भि꣢ । वा꣡ज꣢꣯म् । अ꣣र्ष । अ꣡श्व꣢꣯म् । न । त्वा꣣ । वाजि꣡न꣢म् । म꣣र्ज꣡य꣢न्तः । अ꣡च्छ꣢꣯ । ब꣣र्हिः꣡ । र꣣शना꣡भिः꣢ । न꣣यन्ति ॥६७७॥

Mantra without Swara
प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष । अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति ॥

प्र । तु । द्रव । परि । कोशम् । नि । सीद । नृभिः । पुनानः । अभि । वाजम् । अर्ष । अश्वम् । न । त्वा । वाजिनम् । मर्जयन्तः । अच्छ । बर्हिः । रशनाभिः । नयन्ति ॥६७७॥

Samveda - Mantra Number : 677
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे शिष्य ! त्वम् (तु) सद्यः एव (प्र द्रव) प्रकर्षाय प्रयतस्व। तदर्थं (कोशम्) विद्यायाः निधिभूतं गुरुम् (परि निषीद) परिसेवस्व। (नृभिः) नेतृभिः गुरुजनैः (पुनानः) स्वात्मानं पावयन् (वाजम्) शारीरम् आत्मिकं च बलम् (अभ्यर्ष) प्राप्नुहि। एते गुरवः (वाजिनम्) बलिनम् (त्वा) त्वाम् (मर्जयन्तः) शोधयन्तः सद्गुणालङ्कारैः अलङ्कुर्वन्तश्च। [मृजू शौचालङ्कारयोः, वृद्ध्यभावश्छान्दसः।] (रशनाभिः) नियन्त्रणैः मर्यादाभिश्च (बर्हिः अच्छ) ज्ञानकाण्डं कर्मकाण्डं२ च प्रति (नयन्ति) प्रेरयन्ति। कथमिव ? (वाजिनम् अश्वं न) बलवन्तं तुरगं यथा साङ्ग्रामिकाः जनाः (रशनाभिः) अभीषुभिः (बर्हिः अच्छ) संग्रामं प्रति। [बर्हयन्ति हिंसन्ति यत्र परस्परं तद् बर्हिः सङ्ग्रामः। बर्ह हिंसायाम् चुरादिः।] (नयन्ति) प्रेरयन्ति ॥१॥ अत्र श्लिष्टोपमालङ्कारः ॥१॥
Essence
महान् खल्वस्मासु गुरूणामुपकारो ये निर्बोधानस्मान् विद्यावतस्तपस्विनः पवित्राचरणांश्च विधाय समुन्नयन्ति ॥१॥
Subject
प्रथमा ऋक् पूर्वार्चिके ५२३ क्रमाङ्के जीवात्मोद्बोधनविषये व्याख्याता। अत्र शिष्यं प्रति प्रोच्यते।
Footnote
१. ऋ० ९।८७।२, साम० ५२३। २. दृंहन्ते वर्धयन्ते येन तत् बर्हिर्ज्ञानं प्राप्तं कर्मकाण्डं वा—इति य० २।१८ भाष्ये द०।