Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 676

1875 Mantra
Devata- पवमानः सोमः Rishi- सप्तर्षयः Chhand- प्रगाथः(विषमा बृहती समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
दु꣣हान꣡ ऊध꣢꣯र्दि꣣व्यं꣡ मधु꣢꣯ प्रि꣣यं꣢ प्र꣣त्न꣢ꣳ स꣣ध꣢स्थ꣣मा꣡स꣢दत् । आ꣣पृ꣡च्छ्यं꣢ ध꣣रु꣡णं꣢ वा꣣꣬ज्य꣢꣯र्षसि꣣ नृ꣡भि꣢र्धौ꣣तो꣡ वि꣢चक्ष꣣णः꣢ ॥६७६॥

दु꣣हा꣢नः । ऊ꣡धः꣢꣯ । दि꣣व्य꣢म् । म꣡धु꣢꣯ । प्रि꣣य꣢म् । प्र꣣त्न꣢म् । स꣣ध꣡स्थ꣢म् । स꣣ध꣢ । स्थ꣡म् । आ꣢ । अ꣣सदत् । आ꣣पृ꣡च्छ्य꣢म् । आ꣣ । पृ꣡च्छ्य꣢꣯म् । ध꣣रु꣢ण꣣म् । वा꣣जी꣢ । अ꣣र्षसि । नृ꣡भिः꣢꣯ । धौ꣡तः꣢ । वि꣣चक्षणः꣢ । वि꣣ । चक्षणः꣢ ॥६७६॥

Mantra without Swara
दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नꣳ सधस्थमासदत् । आपृच्छ्यं धरुणं वाज्यर्षसि नृभिर्धौतो विचक्षणः ॥

दुहानः । ऊधः । दिव्यम् । मधु । प्रियम् । प्रत्नम् । सधस्थम् । सध । स्थम् । आ । असदत् । आपृच्छ्यम् । आ । पृच्छ्यम् । धरुणम् । वाजी । अर्षसि । नृभिः । धौतः । विचक्षणः । वि । चक्षणः ॥६७६॥

Samveda - Mantra Number : 676
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
एष शिष्यः (ऊधः) ऊधस्वतीं गुरुरूपां गाम् [अत्र तद्वति लक्षणा।] (दिव्यम्) अलौकिकम् (प्रियम्) रुचिकरम् (मधु) ब्रह्मविद्यारूपं मधु (दुहानः) क्षारयन् (प्रत्नम्) पुरातनम् (सधस्थम्) गुरूणां छात्राणां च सहस्थानं गुरुकुलम् (आसदत्) आसन्नः अस्ति। अथ प्रत्यक्षकृतमाह, हे शिष्य ! (नृभिः) नेतृभिः गुरुभिः (धौतः) शोधितः, (विचक्षणः) पण्डितः, (वाजी) आत्मबलयुक्तः सन् त्वम् (आपृच्छ्यम्) सर्वैः प्रष्टुं योग्यम्। [तं पृ॑च्छता॒ स ज॑गामा॒ स वे॑द॒। ऋ० १।१४५।१ इति श्रुतेः।] (धरुणम्) सर्वस्य जगतः आधारस्तम्भं परमेश्वरम् (अर्षसि) प्राप्नोषि, आवागमनचक्रादात्मानमुन्मुच्य आत्यन्तिकीं दुःखनिवृत्तिमधि- गच्छसीत्यर्थः ॥२॥
Essence
योग्यं गुरुं प्राप्यैव मनुष्यो ब्रह्मसाक्षात्कारं मोक्षं च प्राप्तुमर्हति ॥२॥
Subject
अथ गुरोरन्तेवासिनं शिष्यं वर्णयति।
Footnote
१. ऋ० ९।१०७।५ ‘आ॒पृच्छयं ध॒रु॑णं वा॒ज्य॑र्षति॒ नृभि॑र्धू॒तो वि॑चक्ष॒णः’ इत्युत्तरार्धपाठः।