Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 675

1875 Mantra
Devata- पवमानः सोमः Rishi- सप्तर्षयः Chhand- प्रगाथः(विषमा बृहती समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
पु꣣नानः꣡ सो꣢म꣣ धा꣡र꣢या꣣पो꣡ वसा꣢꣯नो अर्षसि । आ꣡ र꣢त्न꣣धा꣡ योनि꣢꣯मृ꣣त꣡स्य꣢ सीद꣣स्यु꣡त्सो꣢ दे꣣वो꣡ हि꣢र꣣ण्य꣡यः꣢ ॥६७५॥

पु꣣नानः꣢ । सो꣡म । धा꣡र꣢꣯या । अ꣣पः꣢ । व꣡सा꣢꣯नः । अ꣣र्षसि । आ । र꣣त्नधाः꣢ । र꣣त्न । धाः꣢ । यो꣡नि꣢꣯म् । ऋ꣣त꣡स्य꣢ । सी꣣दसि । उ꣡त्सः꣢꣯ । उत् । सः꣣ । देवः꣢ । हि꣣रण्य꣡यः꣢ ॥६७५॥

Mantra without Swara
पुनानः सोम धारयापो वसानो अर्षसि । आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः ॥

पुनानः । सोम । धारया । अपः । वसानः । अर्षसि । आ । रत्नधाः । रत्न । धाः । योनिम् । ऋतस्य । सीदसि । उत्सः । उत् । सः । देवः । हिरण्ययः ॥६७५॥

Samveda - Mantra Number : 675
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) ज्ञानरसनिधे गुरो ! त्वम् (धारया) ज्ञानधारया (पुनानः) शिष्यान् पवित्रीकुर्वन्, (अपः) कर्त्तव्यानि कर्माणि (वसानः) धारयन् (अर्षसि) शिष्याणां मध्ये गच्छसि। (रत्नधाः) रमणीयानां गुणानां धारयिता त्वम् (ऋतस्य योनिम्) सत्यस्य गृहभूतं परमात्मानम् (आसीदसि) उपास्से। त्वम् (उत्सः) विद्यायाः स्रोतः, (देवः) प्रकाशकः, (हिरण्ययः) ज्योतिर्मयश्च विद्यसे ॥१॥
Essence
स एव गुरुर्भवितुं योग्यो यः सकलविद्यापारंगतोऽध्यापनकलाप्रवीण- श्चारित्र्यवान् सच्चरित्रस्य ग्राहयिता शिष्याणां पितृतुल्यस्तेजस्वी गुणवान् गुणप्रशंसकः कृतपरब्रह्मसाक्षात्कारो ब्रह्मानुभूतिं कारयितुं समर्थश्च भवेत् ॥१॥
Subject
प्रथमा ऋक् पूर्वार्चिके ५११ क्रमाङ्के परमात्मपक्षे व्याख्याता। अत्र गुरुर्वर्ण्यते।
Footnote
४. प्रकर्षेण ग्रन्थनं यत्र स प्रगाथः। प्रकर्षो नाम आम्नाताद् ऋक्पाठादाधिक्यम्। इति मी० द० अ० ९, ३, ६ अधि० १ वर्णके माधवव्याख्यानम्। एष च प्रगाथः पादाभ्यासपुरःसरमृगन्तर- सम्पादनेनोपजायते—इति सामश्रमी। १. ऋ० ९।१०७।४ ‘देवो’ इत्यत्र ‘देव’ इति पाठः। साम० ५११।