Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 674

1875 Mantra
Devata- पवमानः सोमः Rishi- अहमीयुराङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣣ना꣡ विश्वा꣢꣯न्य꣣र्य꣢꣫ आ द्यु꣣म्ना꣢नि꣣ मा꣡नु꣢षाणाम् । सि꣡षा꣢सन्तो वनामहे ॥६७४॥

ए꣣ना꣢ । वि꣡श्वा꣢꣯नि । अ꣡र्यः꣢ । आ । द्यु꣡म्ना꣡नि꣢ । मा꣡नु꣢꣯षाणाम् । सि꣡षा꣢꣯सन्तः । व꣣नामहे ॥६७४॥

Mantra without Swara
एना विश्वान्यर्य आ द्युम्नानि मानुषाणाम् । सिषासन्तो वनामहे ॥

एना । विश्वानि । अर्यः । आ । द्युम्नानि । मानुषाणाम् । सिषासन्तः । वनामहे ॥६७४॥

Samveda - Mantra Number : 674
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे पवमान सोम ! अस्मदन्तःकरणानां पवित्रकर्त्तः गुरो ! (अर्यः२) विद्यानामधीश्वरः त्वम् (एना) एनानि (विश्वानि) सर्वाणि (द्युम्नानि) विद्याधनानि (मानुषाणाम्) मननशीलानां शिष्याणामस्माकम् (आ) आगमय, प्रापय। तानि विद्याधनानि (सिषासन्तः) अन्येभ्यो दातुमिच्छन्तो वयम् (वनामहे३) संभजामहे ॥३॥४
Essence
ये मनुष्या गुरूणां सकाशाद् विविधा भौतिकविद्या अध्यात्मविद्याश्चाधीत्यान्यान् पाठयन्ति त एव गुरुऋणान्मुच्यन्ते ॥३॥
Subject
तृतीया ऋक् पूर्वार्चिके ५९३ क्रमाङ्के परमात्मानं संबोध्य व्याख्याता। अत्र गुरुः सम्बोध्यते।
Footnote
१. ऋ० ९।६१।११, य० २६।१८, साम० ५९३। २. अर्यः यजमानः—इति वि०। ३. सिषासन्तः साधयन्तः। वनामहे आह्वयामः—इति वि०। ४. यजुर्भाष्ये दयानन्दर्षिर्मन्त्रमिमम् ‘ईश्वरः कथमुपास्यः’ इति विषये व्याचष्टे। तत्र तन्मते महीयव ऋषिः, विद्वान् देवता।