Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 673

1875 Mantra
Devata- पवमानः सोमः Rishi- अहमीयुराङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
स꣢ न꣣ इ꣡न्द्रा꣢य꣣ य꣡ज्य꣢वे꣣ व꣡रु꣢णाय म꣣रु꣡द्भ्यः꣢ । व꣣रिवोवि꣡त्परि꣢꣯ स्रव ॥६७३॥

सः꣢ । नः꣣ । इ꣡न्द्रा꣢꣯य । य꣡ज्य꣢꣯वे । व꣡रु꣢꣯णाय । म꣣रु꣡द्भ्यः꣢ । व꣣रिवोवि꣢त् । व꣣रिवः । वि꣢त् । प꣡रि꣢꣯ । स्र꣣व ॥६७३॥

Mantra without Swara
स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः । वरिवोवित्परि स्रव ॥

सः । नः । इन्द्राय । यज्यवे । वरुणाय । मरुद्भ्यः । वरिवोवित् । वरिवः । वित् । परि । स्रव ॥६७३॥

Samveda - Mantra Number : 673
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे ज्ञानरसागार गुरो ! (सः) असौ अतिशयगुणवाँस्त्वम् (नः) अस्माकम् (यज्यवे) विद्यायज्ञस्य यजमानभूताय (इन्द्राय) आत्मने, (वरुणाय) श्रेष्ठाय मनसे, (मरुद्भ्यः) प्राणेभ्यश्च (वरिवोवित्) तत्तदैश्वर्याणां लम्भकः सन् (परिस्रव) शिष्याणां मध्ये विचर ॥२॥२
Essence
गुरूणामुचितमस्ति यत् ते विद्याध्यापनातिरिक्तं शिष्यस्यात्ममनःप्राणानामपि विकासं कुर्युः ॥२॥
Subject
द्वितीया ऋक् पूर्वार्चिके ५९२ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र गुरुशिष्यविषयो वर्ण्यते।
Footnote
१. ऋ० ९।६१।१२ य० २६।१७ साम० ५९२। २. यजुर्भाष्ये दयानन्दर्षिर्मन्त्रमिमं विद्वत्पक्षे व्याख्यातवान्। तत्र तन्मते महीयव ऋषिः, इन्द्रो देवता।