Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 672

1875 Mantra
Devata- पवमानः सोमः Rishi- अहमीयुराङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
उ꣣च्चा꣡ ते꣢ जा꣣त꣡मन्ध꣢꣯सो दि꣣वि꣡ सद्भूम्या ददे꣢꣯ । उ꣣ग्र꣢꣫ꣳ शर्म꣣ म꣢हि꣣ श्र꣡वः꣢ ॥६७२॥

उ꣣च्चा꣢ । उ꣣त् । चा꣢ । ते꣣ । जात꣢म् । अ꣡न्ध꣢꣯सः । दि꣣वि꣢ । सत् । भू꣡मि꣢꣯ । आ । द꣣दे । उग्र꣢म् । श꣡र्म꣢꣯ । म꣡हि꣢꣯ । श्र꣡वः꣢꣯ ॥६७२॥

Mantra without Swara
उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे । उग्रꣳ शर्म महि श्रवः ॥

उच्चा । उत् । चा । ते । जातम् । अन्धसः । दिवि । सत् । भूमि । आ । ददे । उग्रम् । शर्म । महि । श्रवः ॥६७२॥

Samveda - Mantra Number : 672
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे पवमान सोम जीवनस्य पवित्रतासम्पादक गुरो ! (ते) तव (अन्धसः) ज्ञानरसस्य (जातम्) उत्पन्नं रूपम् (उच्चा) अत्युच्चं वर्त्तते। (दिवि सत्) प्रकाशे विद्यमानं तत् (भूमि) भूमिः, भूमिवत् स्वतःप्रकाशरहितोऽहम् [सोर्लोपः सन्धिश्च छान्दसः।] (आ ददे) गृह्णामि। तज्ज्ञानग्रहणेन च मम (उग्रम्) प्रबलम् (शर्म) सुखम्, (महि) महत् श्रवः यशः धनं च जनिष्यते ॥१॥२
Essence
गुरोः सकाशाच्छास्त्राण्यधीत्य ब्रह्मविद्यां चानुभूय शिष्याः स्वजीवने शान्ताः सुखिनो यशस्विनश्च जायन्ते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४६७ क्रमाङ्के रसागारस्य परमेश्वरस्यानन्दरसविषये व्याख्याता। अत्र विद्यागारस्य गुरोर्ज्ञानरसविषये व्याख्यायते।
Footnote
१. ऋ० ९।६१।१०, ‘दिविषद्’ इति पाठः। य० २६।१६, साम० ४६७। २. यजुर्भाष्ये दयानन्दर्षिर्मन्त्रमिमं ‘विद्वद्भिर्मनुष्यैः सूर्यकिरणवायुमन्त्यन्नादियुक्तानि महान्त्युच्चानि गृहाणि रचयित्वा तत्र निवासेन सुखं भोक्तव्यम्’ इति विषये व्याख्यातवान्। यजुर्वेदे तन्मते अस्य मन्त्रस्य महीयव ऋषिः, अग्निर्देवता।