Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 671

1875 Mantra
Devata- इन्द्राग्नी Rishi- विश्वामित्रो गाथिनः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
इ꣡न्द्र꣢म꣣ग्निं꣡ क꣢वि꣣च्छ꣡दा꣢ य꣣ज्ञ꣡स्य꣢ जू꣣त्या꣡ वृ꣢णे । ता꣡ सोम꣢꣯स्ये꣣ह꣡ तृ꣢म्पताम् ॥६७१॥

इ꣡न्द्र꣢꣯म् । अ꣣ग्नि꣢म् । क꣣विच्छ꣡दा꣢ । क꣣वि । छ꣡दा꣢꣯ । य꣣ज्ञ꣡स्य꣢ । जू꣣त्या꣢ । वृ꣣णे । ता꣢ । सो꣢म꣢꣯स्य । इ꣡ह꣢ । तृ꣣म्पताम् ॥६७१॥

Mantra without Swara
इन्द्रमग्निं कविच्छदा यज्ञस्य जूत्या वृणे । ता सोमस्येह तृम्पताम् ॥

इन्द्रम् । अग्निम् । कविच्छदा । कवि । छदा । यज्ञस्य । जूत्या । वृणे । ता । सोमस्य । इह । तृम्पताम् ॥६७१॥

Samveda - Mantra Number : 671
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
अहम् (यज्ञस्य) विद्यायज्ञस्य (जूत्या२) जूत्यै वेगाय, सद्यः साधनाय। [जु गतौ। जूतिशब्दात् चतुर्थ्यैकवचने ‘सुपां सुलुक्०’ इति विभक्तेराकारादेशः।] (कविच्छदा) कविच्छदौ, कवीन् मेधाविनः छादयतः दुःखविपदादिभ्यः अपवारयतः इति तौ। [छद अपवारणे ‘सुपां सुलुक्०’ इति विभक्तेराकारादेशः।] (इन्द्रम् अग्निम्) आत्मानं मनश्च (वृणे) संभजामि। [वृङ् सम्भक्तौ, क्र्यादि।] (ता) तौ (इह) अस्मिन् विद्यायज्ञे (सोमस्य) ज्ञानरसेन [तृतीयार्थे षष्ठी।] (तृम्पताम्) तृप्तिं कारयताम्। [तृम्प तृप्तौ, तुदादिः] ॥३॥३
Essence
आत्ममनोरूपाभ्यां यजमानहोतृभ्याम् आचार्यरूपेण ब्रह्मणा च सम्पादितो विद्यायज्ञः सफलः प्रभावकारी च जायते ॥३॥ प्रथमे खण्डे परब्रह्मणो ब्रह्मानन्दस्य च वर्णनाद् द्वितीये च खण्डे स ब्रह्मानन्दरसस्तदैव प्राप्तुं शक्यते यदा जीवात्मा मनश्च तदर्थं प्रयतेते इति प्रदर्शनाद् द्वितीयखण्डस्य प्रथमखण्डेन संगतिरस्तीति विज्ञेयम्।
Subject
अथ पुनरपि तमेव विषयमाह।
Footnote
१. ऋ० ३।१२।३। २. जूत्या अभिवृद्ध्या निमित्तभूतया—इति वि०। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं विद्वत्सङ्गविषये व्याख्यातवान्।