Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 67

1875 Mantra
Devata- अग्निः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
मू꣣र्धा꣡नं꣢ दि꣣वो꣡ अ꣢र꣣तिं꣡ पृ꣢थि꣣व्या꣡ वै꣢श्वान꣣र꣢मृ꣣त꣢꣫ आ जा꣣त꣢म꣣ग्नि꣢म् । क꣣वि꣢ꣳ स꣣म्रा꣢ज꣣म꣡ति꣢थिं꣣ ज꣡ना꣢नामा꣣स꣢न्नः꣣ पा꣡त्रं꣢ जनयन्त दे꣣वाः꣢ ॥६७॥

मू꣣र्धान꣢म् । दि꣣वः꣢ । अ꣣रति꣢म् । पृ꣣थिव्याः꣢ । वै꣣श्वानर꣢म् । वै꣣श्व । नर꣢म् । ऋ꣣ते꣢ । आ । जा꣣त꣢म् । अ꣣ग्नि꣢म् । क꣣वि꣢म् । स꣣म्रा꣡ज꣢म् । स꣣म् । रा꣡ज꣢꣯म् । अ꣡ति꣢꣯थिम् । ज꣡ना꣢꣯नाम् । आ꣣स꣢न् । नः꣣ । पा꣡त्र꣢꣯म् । ज꣣नयन्त । देवाः꣢ ॥६७॥

Mantra without Swara
मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम् । कविꣳ सम्राजमतिथिं जनानामासन्नः पात्रं जनयन्त देवाः ॥

मूर्धानम् । दिवः । अरतिम् । पृथिव्याः । वैश्वानरम् । वैश्व । नरम् । ऋते । आ । जातम् । अग्निम् । कविम् । सम्राजम् । सम् । राजम् । अतिथिम् । जनानाम् । आसन् । नः । पात्रम् । जनयन्त । देवाः ॥६७॥

Samveda - Mantra Number : 67
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(दिवः) द्युलोकस्य (मूर्धानम्) शिरोमणिम्, (पृथिव्याः) भूमेः (अरतिम्) सूर्यं परितः स्वधुरि च गमयितारम्। अर्पयति गमयति इति अरतिः। ऋ गतौ धातोः वहिवस्यर्तिभ्यश्चित्।’ उ० ४।६१ इति अति प्रत्ययः। (वैश्वानरम्) विश्वेषां नराणां हितम्, विश्वेषां नेतारं वा। वैश्वानरः कस्मात्? विश्वान् नरान् नयति, विश्व एनं नरा नयन्तीति वा। अपि वा विश्वानर एव स्यात्, प्रत्यृतः सर्वाणि भूतानि, तस्य वैश्वानरः इति हि निरुक्तम्। ७।२१। (कविम्) मेधाविनम्। कविः मेधाविनाम। निघं० ३।१५। (सम्राजम्) ब्रह्माण्डसाम्राज्यस्य धुरन्धरम्, (जनानाम्) प्रजानाम् (अतिथिम्) अतिथिवत् सत्करणीयम्, (नः) अस्माकम् (पात्रम्) रक्षकम्। पाति रक्षतीति पात्रम्। पा रक्षणे धातोः सर्वधातुभ्यः ष्ट्रन्।’ उ० ४।१६ इति ष्ट्रन्। (अग्निम्) ज्योतिर्मयं परमेश्वरम् (देवाः) विद्वांसः उपासकजनाः (आसन्) आस्ये मुखे जपद्वारा, हृदयगह्वरे वा ध्यानद्वारा अत्र पद्दन्नोमास्०’ अ० ६।१।६™३ इत्यास्यशब्दस्य आसन् आदेशः। सुपां सुलुक्०’ अ० ७।१।३९। इति सप्तम्येकवचनस्य लुक्। (जनयन्त) प्रकटयन्ति साक्षात्कुर्वन्तीति भावः। जनी प्रादुर्भावे धातोः लडर्थे लङ्, व्यत्ययेनात्मनेपदम्, बहुलं छन्दस्यमाङ्योगेऽपि।’ अ० ६।४।७५ इत्यडागमाभावः ॥५॥२ अत्र विशेषणानां साभिप्रायत्वात् परिकरालङ्कारः ॥५॥
Essence
यः परमात्मा द्यावापृथिव्योः सञ्चालकः सर्वहितकर्ता सुसत्यनियमो महाकविर्विश्वसम्राट् समेषां विपद्भ्यस्त्राता च वर्तते तं ध्यात्वा मनुष्यैः सर्वाणि सुखानि प्राप्तव्यानि ॥५॥
Subject
अथ कीदृशं परमेश्वरं विद्वांसः साक्षात् कुर्वन्तीत्याह।
Footnote
१. ऋ० ६।७।१, य० ७।२४, ३३।८। सर्वत्र मासन्नः इत्यत्र मासन्ना इति पाठः। साम० ११४०। २. एष मन्त्रो दयानन्दर्षिणा ऋग्भाष्ये परमात्मनो विदुषश्च पक्षे, यजुर्भाष्ये च यानेषु शस्त्रास्त्रेषु यन्त्रादिषु च वह्निविद्युत्प्रयोगविषये व्याख्यातः।